________________ [ // अथ सप्तमोत: // (ततः प्रविशति सर्पकर्णः / ) सर्पकर्णः-( सखेदम् ) छित्त्वा कण्ठमकुण्ठखगलतया चाटूनि सन्तन्वतो, लोकात् क्लेशशतार्जितं च सुलसद्गाान्धलैर्गृह्यते / प्राणानां च पणेन तस्य निभृतं भोगः सदा सर्वतः, . साशकैः स्वपरोपतापजननी धिक् तस्कराणां स्थितिम् // 1 // (पुनर्विमृश्य ) आदिष्टोऽस्मि पल्लीपतिना सार्थस्य वा पान्थस्य वा कस्यापि गवेषणाय, तदहमेतं न्यग्रोधमारुह्य विलोकयामि / ( तथाकृत्वा विलोक्य च ) कथमयं दवीयसि प्रदेशे महान् सार्थः समेति / ( पुनरन्यतोऽवलोक्य सहर्षम् ) कथमेतानि कियन्त्यपि स्त्रीप्रायाणि मानुषाणि पल्ले: परिसरवर्तीन्येव ? / तदुत्तीर्य निपुणमवलोकयामि / / ( इत्युत्तरणं नाटयति / ) (ततः प्रविशति कौमुदी सुमित्रा स्कन्धकृतबालका वृद्धा- मूर्धकृतकरण्डकः स्थविरश्च / ) कौमुदी-अणंतरं कित्तिआई पि दिवसाई अम्हे अमच्चस्स गेहे वसिआई। .. सुमित्रा-तंदो तदो?। कौमुदी-अन्नया निसीढसमये केणावि पओअणेण कत्थ वि अमच्चेण मित्तागंदो पेसिदो। वृद्धा-( सत्वरम् ) तँदो तदो। कौमुदी-मेह उवरिं अणुरायं जाणिय अमच्चस्स भारिआए एदं थविरं सहायं दाऊण करंडयं च समप्पिअ पभाए अहं पि नीहारिदा / स्थविरः-वत्से ! सपत्नीसम्भावनया त्वममात्यपत्न्या निष्कासिताऽसि / कौमुदी-कमेण च मग्गे भमंती ईआणि तुम्हाणं सत्थे मिलिदा / 1) अनन्तरं कियन्त्यपि दिवसानि वयं अमात्यस्य गेहे उषिताः / 2) ततस्ततः / 3) अन्यदा निशीथसमये केनापि प्रयोजनेन कुत्रापि अमात्येन मित्राणन्दः प्रेषितः / 4) ततस्ततः / 5) ममोपरि अनुरागं ज्ञात्वा अमात्यस्य भार्यया एतं स्थविरं सहायं दत्त्वा करण्डकं च समर्प्य प्रभाते ऽहमपि निष्कासिता / / 6) क्रमेण च मार्गे भ्राम्यती इदानीं युष्माकं सार्थे मीलिता। - 1 न्यग्रोधमधिरुह्य ख। 2 इयाणिं ख।