________________ महाकविश्रीरामचन्द्रसूरिविरचितं (मैत्रेयः सलज्जमधोमुखो भवति / ) विजयवर्मा-(विमृश्य ) सुनन्द ! कोऽयं यक्षाधिराजस्योपहारविधेर्विलम्बः / (प्रविश्य ) कपिञ्जल:-देव! सर्वमपि प्रगुणं पूजोपकरणम्, किमुतोपहारपुरुषः कथमपि न सङ्घटितः। विजयवर्मा-( सविषादम् ) सुनन्द ! असम्पादितोपयाचितानामस्माकमुपस्पर्शनमात्रमप्यनुचितम् / तद् विचिन्तय कमप्युपहारसङ्घटनोपायम् / मैत्रेयः पुण्यप्रसूतजन्मानश्चण्डालव्यालसङ्गताम्। मांस रक्तमयी देवाः किं बलिं स्पृहयालवः // 13 // ततः कोऽयं भवद्भिर्विचारवन्ध्यमनसां दुर्मेधसां पन्थाः समुपास्यते 1 / अपि च अक्रूरं श्रेयसे कर्म क्रूरमश्रेयसे पुनः। इति सिद्धे पथि क्रूरं श्रेयसे स्पृशतां भ्रमः // 14 // विजयवर्मा-क्रूरशास्त्रप्रतारितैरस्माभिर्योऽयमेकः प्रतिज्ञातो विधिः स प्रमाणमस्तु / अतः परं पुनर्यदभिधास्यते तदनुष्ठास्यामः / (प्रविश्य) प्रतीहारः-देव ! अमात्येन कामरतिना प्रेषितः पुरुषो द्वारि वर्तते / ... विजयवर्मा-(साशङ्कम् ) शीघ्रं प्रवेश्यताम् / (प्रविश्य पुरुषः प्रणम्य लेखमर्पयति / ) सुनन्द:-(गृहीत्वा वाचयति / ) स्वस्ति, रङ्गशालातो महामात्यः श्रीकामरतिमण्डलेश्वरं विजयवर्माणं सम्बोध्य कार्यमादिशति / यथा-यदि मदीयं कमप्युपकारलेशं स्मरसि तदा यदयमषडक्षीणं किमपि विज्ञपयति सन्देशहरो दुर्मुखस्तदचिरादतिनिगूढमादधीथा इति / विजयवर्मा-दुर्मुख ! कथय किमपि कर्णे यदमात्यः समादिष्टवान् / __(दुर्मुख उत्थाय कर्णे एवमेव / ) विजयवर्मा-कामरतिवचसा वयमात्मीयं शिरोऽपि समर्पयामः / एतावतः पुनरर्थस्य का कथा ? / किञ्च एकेनैवाधुनाऽस्माकमेतेन ननु कर्मणा। मन्त्री यक्षश्च सन्तोषपरिपोषं प्रयास्यति // 15 // 1 विधिविलम्बः क। 2 सङ्घटते ख।