________________ - कौमुदीमित्राणन्दरूपकम् / * राजा-(कौमुदी विलोक्य ) अस्याः सरोरुहहशः सततोदयं च, निर्लाञ्छनं च विरचय्य मुखं विधातुः। खण्डोदयं च जनविश्रुतलाञ्छनं च, . चन्द्रं पुनर्घटयतो विदितो विचारः॥ 7 // कामरतिः-(साभिलाषम् ) देव! अज्ञातलंक्ष्मणि सदोदयवृत्तभाजि, पूर्व सरोरुहदृशां घटिते मुखेन्दौ। सारूप्यदूषणभयाद् विधिनाऽयमिन्दुः, पक्षक्षयी च घटितः स्फुटलाञ्छनश्च // 8 // (पुनः स्वगतम् ) विफल एव ममावतारो यद्यनया सह न क्रीडामि / राजा-अरे कालपाश ! कुत्र प्रदेशे कथं चायं प्राप्तः / / कालपाश:-आनुपदिकेनार्पितश्चण्डिकायतने प्रतिगृहीतः / राजा-(विमृश्य ) तं त्वरिततरमानुपदिकमाकारय / - (प्रविश्य ) आनुपदिकः-एसे म्हि / ... राजा-अरे ! अयं तस्करः त्वया पदानुसारेण समुपनीतः / आनुपदिकः-( मित्राणन्दपदान्यवलोक्य ) भैष्टा ! अन्नालिशा शा पदपद्धई जा कच्चायणीभवणं पविष्टा / राजा-अमात्य ! किमिदम् / - 'कामरतिः-देव ! अयमपि चौरः, यस्य च पदपद्धतिः कात्यायनीभवनं. प्रविष्टा सोऽपि चौरः / महदिदं देवस्य नगरम् , सम्भवन्ति भूयांसो दस्यवः / राजा-(कौमुदी प्रति) वकं पात्रं लवणमधुना, पद्महृद्यौ च पाणी, वाणी स्वादुश्चकितहरिणीहारिणी नेत्रपत्रे। लज्जासज्जा स्थितिरविकृतिभूरिसत्त्वं महत्त्वं, ___ तत् त्वं तत्त्वं कथय ननु नः कासि? कस्यासि पत्नी?॥९॥ कौमुदी-(सलज्जम् ) देव / वणिअस्स दुहिआ, एदस्स बहुआ। 1) एषोऽस्मि / 2 भर्तः / अन्यादृशी सा पदपद्धतिः या कात्यायनीभवनं प्रविष्टा। 3) देव! वणिजो दुहिता, एतस्य वधूः / 1 एसो म्हि ख। . . . /