________________ [ // अथ चतुर्थोऽङ्कः // ] (ततः प्रविशति मित्राणन्दो मूर्धकृतकरण्डा कौमुदी च / ) मित्राणन्दः-( समन्ततोऽवलोक्य ) प्राचीनमञ्चति वियत् पृथुशोककोक कान्ताकपोलपुलकोपयिकं दिनेशः। श्रान्ता इवास्ततटकुट्टिममाश्रयन्ति, राजीवजीवितहृतो हरिणाङ्कपादाः // 1 // कौमुदी-अजउत्त ! कित्ति अन्ज वि गंतव्वं ? / मित्राणन्दः-प्रिये ! महत्यपि प्राप्तपारे मार्गोदन्वति मास विषादनिषादं स्पृशः। प्राप्ता एव सिंहलद्वीपराजधानीपरिसरभुवम् / यदि च रजनीचरणचङ्कमणेनाति. चिरं परिश्रान्ताऽसि तदानीमवतार्य शिरसः करण्डमनेकस्तबककदम्बकखर्वशाखस्य क्रमकखण्डस्यास्य निरपायासु च्छायासु विनोदय क्षणं प्ररूढगाढखेदं मार्गखेदम् / ___ ( कौमुदी तथाकरोति / ) मित्राणन्दः-प्रिये ! नानादेशोद्भवैर्भग्नयानपात्रैर्वणिग्भिासीकृतस्य विचित्रस्य कनकरत्नाभरणस्य समुद्वहनेन सुचिरमायासितानि बालमृणालकोमलानि तवाङ्गानि / तदहं संवाहयामि। "कौमुदी-( सलज्जम् ) अजउत्त ! अलाहि एदिणा विणयपन्भंसेण / न एस कुलबहूआणं पसंसणिजो मग्गो। तुमं पि पायविहारकिलेसेण परिसंतोऽसि, ता अहं / ते अंगसंवाहणं करिस्सं। मित्राणन्द:-( साश्चर्यमात्मगतम् ) न मे गोत्रं वेद प्रकृतिमपि.............. 'न, खभावस्थं किञ्चोपकृतमपि नास्यां किमपि मे। .. तथाप्येषा बन्धूनमुचदसिताक्षी मम कृते, पुरन्ध्रीणां प्रेमग्रहिलमविचारं खलु मनः // 2 // (प्रकाशम् ) प्रिये कौमुदि ! दवीयसो देशान्तरादुपगतवतः सर्वथाऽप्यविज्ञातकुल-शील-सम्पदः परोक्षप्रेमग्रन्थम वणिजो निमित्तं चिरप्ररूढसौहार्दमुद्रोपद्रुतानां बन्धूनामुपहास्यजनकं स्वदेशपरिहार-पादविहार-शीतवातातपप्रसहनप्रायं क्लेशावेशमतुच्छमुपगच्छन्ती निमीलित 1) आर्यपुत्र ! कियदद्यापि गन्तव्यम् ? / 2) आर्यपुत्र ! अलं एतेन विनयप्रभ्रंशेन / न एष कुलवधूनां प्रशंसनीयो मार्गः / त्वमपि पादविहारलेशन परिश्रान्तोऽसि, तदहं तेऽङ्गसंवाहनं करिष्यामि /