________________ महाकविश्रीरामचन्द्रसूरिविरचितं कुन्दलता-सत्थवाह ! तुब्भेहिं अहं सुमरिदव्या / अहं खु रयणकूडपव्वयाहिंतो कोमुईनेहेण इध समागदा वट्टामि / मैत्रेयः-(विहस्य ) भद्रे ! अहमपि त्वया कदाचिदुपलक्षणीयः। कौमुदी- ( मित्राणन्दं प्रति ) अत्थि तादस्स अणुभूदपभावो विसावहारमंतो। मित्राणन्दः- ततः किम् ? / / कौमुदी- सो पाणिमोअणापव्वणि अत्थिदव्यो / मैत्रेयः-आर्ये ! सरलाऽसि / योऽस्मान् जिघांसति स किं मत्रमुपनयति ? / कौमुदी-परन्तमारणनिच्छओ सव्वं पितादो अणुहिस्सदि। ( नेपथ्ये ) हंहो बटवः ! प्रगुणितः सर्वोऽपि विवाहमङ्गलविधिः / समर्थितकौतुककृयं च विवाहवेदीमधिरूढं वधूवरम् / कौमुदी-कैथमेस तादो जंपेदि / कुन्दलता-अजे ! वच्च तुमं कोउअमंगलमणुभवितुं / ( पुनर्मित्राणन्दं प्रति ) तुम्हे वि गच्छध / ( कौमुदी-मित्राणन्द-मैत्रेयाः निष्क्रान्ताः / ) (ततः प्रविशति कुलपतिर्गजपादश्च / ) कुलपतिः -( सनिर्वेदम् ) प्रपात्य दन्तानुपनीय जाड्यं, __निहत्य सन्धिस्थलसौष्ठवं च। . . जरा पुनः शैशवमाततान, तथाप्यपायस्पृहयालुचेताः॥१४॥ (नेपथ्ये) इदानीं सर्वस्यापि कर्मणः पर्यन्तः सञ्जातः / गजपादः-( सभयमात्मगतम् ) केयमुपश्रुतिः कुलपतेरनिष्टं सूचयति / (उपसृत्य कुन्दलता प्रणमति / ) 1) सार्थवाह ! युष्माभिरहं स्मर्तव्या / अहं खलु रत्नकूट पर्वतात् कौमुदीस्नेहेनात्र समागता वर्ते / 2) अस्ति तातस्यानुभूतप्रभावो विषापहारमन्त्रः। 3) स पाणिमोचनापर्वणि अर्थयितव्यः / 4) पर्यन्तमारणनिश्चयः सर्वमपि तातोऽनुष्ठास्यति / 5) कथमेष तातः जल्पति ? / 6) आर्ये ! व्रज त्वं कौतुकमङ्गलमनुभवितुम् / यूयमपि गच्छत /