SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 14 महाकविश्रीरामचन्द्रसूरिविरचितं मित्राणन्दः- (कर्णी पिधाय) सिद्धाधिनाथ ! मामेवमौचित्यातिक्रमेण मा दवीथाः / वसुधास्पृहणीयवैभवैः खेचरचक्रवर्तिभिर्भवादृशैः प्रबोधितस्य श्रवणोदरसदःसुधावर्षिणश्चाटुकर्मणः पुरन्दरार्हस्य तस्यास्यानर्हाः खलु जठरपिठरीभरणमात्रोन्मदिष्णुचेतसो निस्तेजसो वणिजः। (नेपथ्ये) श्रेयांसि प्रभवन्तु ते, प्रतिदिशं तेजांसि वर्धिष्णुता तां पुष्णन्तु, भवन्तु वीतविपदस्ते पाथसां सम्पदः। आशाः सन्तु भवद्यशोभिरनिशं व्याकोशकुन्दत्विषो, विश्वेषां शमिनां तपोभिरनधैः कल्पान्तजीवी भव // 11 // पुरुषः-(समाकर्ण्य सकम्पम् ) यथाऽमी घोरघोणप्रभृतयस्तपोधनाः प्रमोदप्रबोधितवाष्पोष्ममूर्छालकण्ठकुहरसदसो मधुरगम्भीरघोषमाशिषमुद्घोषयन्ति तथा जाने देवतायतनमुपसपेति पाशपाणिः, तद् विसर्जयत माम् / अपरथा पुनरप्ययं दुरात्मा मयि कामपि यातनामाधास्यति / अहं च साम्प्रतं विगतशोकपरिच्छदः प्रत्युपकारविद् रुपमपि प्रथयितुमनलम्भूष्णुः। ततो यदि तत्रभवतां भवतां हतकस्य दुर्मेधसो विलसितेन किमपि व्यसनमुपजायेत तदा मां पदातिरेणुं स्मरेयुः। ( इत्यभिधाय प्रणम्य त्वरिततरं निष्क्रान्तः / ) मैत्रेयः-कथमयं पाशपाणिप्रतिभयेनौषधेर्वलयं विस्मृत्य गतवान् / (नेपथ्ये साक्षेपम् ) कः कालेन कटाक्षितः?, स्फुटरुषा दृष्टः फणीन्द्रेण कः ?, स्फूर्जद्वह्निकणः करिष्यति शिरः कस्याशनिर्भस्मसात् ? / झम्पां कल्पविशृङ्खले जलनिधौ को दातुमुत्कण्ठितः ?, क्रीडावेश्मनि नः क एष मनुजः स्वैरं परिभ्राम्यति? // 12 // (उभौ सत्रासमाकाशमालोकयतः / ) (ततः प्रविशति गगनादवतरणं नाटयन् पाशपाणिः कुन्दप्रभप्रभृतिकश्च परिवारः।) पाशपाणिः- अरे मत्र्यो ! मरणोन्मुखौ कुतस्त्यौ युवाम् / किमर्थं च देवतायतनस्य जगतीं पुरन्दरेणापि नमस्करणीयां वसुधासम्पर्कपांशुराभ्यां [पादाभ्यां ] कश्मलयतः / . (उभौ प्रतिभयेन प्रकम्पेते / ) मित्राणन्दः-परमेश्वर ! आवामविज्ञातद्वीपस्वरूपौ भनयानपात्रौ वणिजौ देवतायतनरामणीयकमवलोकयितुं जगतीमधिरूढौ / / कुन्दप्रभः- परमेश्वर ! अबुद्धिपूर्वकोऽयमनयोर्मय॑योरपराधः /
SR No.004295
Book TitleKaumudi Mitranand Rupakam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy