________________ ॥सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः॥ // / अस्ति बनाभिधे देशे सुप्रसिद्धा मनोरमा / मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी // बहवो निवसन्स्यत्र जैना उकेशवंशजाः / धनाढ्या नृपसम्मान्या धर्मकर्मपरायणाः // श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् / साधुवत् सचरित्रो यः सिंघीकुलप्रभाकरः। बाल्य एव गतो यश्च कर्तुं व्यापारविस्तृतिम् / कलिकातामहापुर्या धृतधर्मार्थनिश्चयः // कुशाग्रीयया सद्बुद्ध्या सद्वृत्त्या च समिष्ठया / उपाय॑ विपुलो लक्ष्मी कोट्यधिपोऽजनिष्ट सः। तस्य मनुकुमारीति सबारीकुलमण्डना / जाता पतिव्रता पत्नी शीलसौभाग्यभूषणा / श्रीबहादुरसिंहाख्यो गुणवांस्तनयस्तयोः / सञ्जातः सुकृती दानी धर्मप्रियश्च धीनिधिः // प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी / यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् // श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठपुत्रः सुशिक्षितः / यः सर्वकार्यदक्षत्वात् दक्षिणबाहुवत पितुः // नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः / सूनुरिन्द्रसिंहश्च कनिष्टः सौम्यदर्शनः // सन्ति त्रयोऽपि सत्पुत्रा आप्तभक्तिपरायणाः / विनीताः सरला भन्याः पितुर्मार्गानुगामिनः // .. भन्येऽपि बहवस्तस्याभवन् स्वनादिवान्धवाः / धनैर्जनैः समृद्धः सन् स राजेव व्यराजत // अन्यच्चसरस्वत्या सदासको भूत्वा लक्ष्मीप्रियोऽप्ययम् / तत्राप्यासीत् सदाचारी तच्चित्रं विदुषां खलु // नाहकारो न दुर्भावो न विलासो न दुर्व्ययः / दृष्टः कदापि यद्गेहे सतां तद् विस्मयास्पदम् // भको गुरुजनानां स विनीतः सजनान् प्रति / बन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि // देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः / इतिहासादि-साहित्य-संस्कृति-सत्कलाप्रियः॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे / प्रचाराय च शिक्षाया दत्तं, तेन धनं धनम् // गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदान्वितः / दावा दानं यथायोग्य प्रोत्साहिताश्च कर्मठाः // एवं धनेन देहेन ज्ञानेन शुभनिष्ठया / अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः // अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे / कर्तुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् // पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः स्वयम् / तस्मात् तज्ज्ञानवृद्ध्यर्थ यतनीयं मयाऽप्यरन् / विचार्य स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् / श्रद्धेयानां स्वमित्राणां विदुषां चापि तादृशाम् // जैनज्ञानप्रसारार्थ स्थाने शान्ति नि के त ने / सिंघीपदाङ्कितं जैन ज्ञान पीठ मतीछिपत् // श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः / स्वीकतु प्रार्थितस्तेन तस्याधिष्ठायकं पदम् // तस्य सौजन्य-सौहाई स्थैयौदार्यादिसद्गुणैः / वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् // कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना / रस-नागा-चन्द्राब्दे तत्प्रतिष्ठा व्यधीयत // प्रारब्धं मुनिना चापि कार्य तदुपयोगिकम् / पाठनं ज्ञानलिप्सूनां ग्रन्थानां प्रथनं तथा // वस्यैव प्रेरणा प्राप्य श्रीसिंघीकुलकेतुना / स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका // उदारचेतसा तेन धर्मशीलेन दानिना / व्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसुसिद्धये // छात्राणां वृत्तिदानेन नैकषां विदुषां तथा / ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् // जलवाग्वादिकानां तु प्रातिकूल्यादसौ मुनिः / कार्य त्रिवार्षिकै तत्र समाप्यान्यत्रावासितः // तत्रापि सततं सर्व साहाय्यं तेन यच्छता / ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः // नन्दे-निध्येके-चन्द्राब्दे कृता पुनः सुयोजना / ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना // ततो मुनेः परामर्शात् सिंघीवंशनभस्वता / भा विद्या भवना येयं ग्रन्थमाला समर्पिता // भासीसस्य मनोवाम्छाऽपूर्वग्रन्थप्रकाशने / तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् // दुर्विलासाद् विधेर्हन्त ! दौर्भाग्याचात्मबन्धूनाम् / स्वल्पेनैवाथ कालेन स्वर्ग स सुकृती ययौ / इन्दु-ख-शून्य-नेवाग्दे मासे भाषाढसज्ञके / कलिकाताख्यपुर्या स प्राप्तवान् परमां गतिम् // पितृभक्तश्च तस्पुत्रैः प्रेयसे पितुरात्मनः / तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना तथा // पूर्व प्रन्यावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा / भूयाद् भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका // विद्वज्जनकृताहादा सच्चिदानन्ददा सदा / चिरं नन्दस्वियं लोके श्रीसैंधी प्रन्थपद्धतिः // 22