________________ 135 सोमप्रभाचार्यकृतनृपस्स जीवाभयदानडिण्डिमै-महीतले नृत्यति कीर्तिनर्तकी / समं मनोमिस्तिमि केकि-तितिरिस्तुमोरण-कोड-मृगादिदेहिनान् // घूतासवादीनि नृणां न्यषेधीदिहैव सप्त व्यसनानि भूपः / दुष्कर्मतो दुर्गतिसंभवानि परत्र तेषां त्वमितानि तानि // पदे पदे भूमिभुजा निवेशितैर्जिनालयैः काञ्चनदण्डमण्डितैः / निवारिता वेत्रधरैरिवोद्धतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः // स्तुमत्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् / अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिमर्तुळधित प्रबोधम् // सत्त्वानुकम्पा न महीभुजां स्यादित्येष क्लृप्तो वितथः प्रवादः / जिनेन्द्रधर्म प्रतिपद्य येन श्लाघ्यः स केषां न कुमारपालः॥ विचित्रवृत्तान्तसमेतमेतयोश्चरित्रमुत्कीर्तयितुं क्षमेत कः / तथापि तस्यैव .... तार्थिना समुद्धृतो बिन्दुरिवाम्बुधर्मया // इति सोमम भकथिते कुमारनृप-हेमचन्द्रसम्बद्धे / जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः // 15 // / इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे पञ्चमः प्रस्तावः /