________________ चतुरशीतिप्रयन्धान्तर्गत वाहनौषधि-पाथेयसहाय(यं) वृषभादिकम् / यत् यस्य नास्ति तत् तस्मै नृपः सर्व प्रदास्यति // 43 // इतश्चारैरागत्योक्तम् -'देव ! डालदेशीयः कर्णो लक्षैत्र(स्त्रि)भिरश्वानां] गजानां चतुर्दशमिः शतैः, विंशतिलक्षपत्य(त्य)न्वितो गूर्जरात्रौ उपर्येति' / तत् श्रुत्वा नृपो व्याकुलः सन् प्रभूनाह -'भगवन् ! अन्तरायमिव * बुध्यते / यात्रा क्रियते वा परचक्रसंमुखं गम्यते / द्वयं कथं स्यात् ?' / 'देव ! स्वस्थैर्भाव्यम् / श्रेयांसि बहुविनानि भवन्ति महतामपि। अश्रेयसि स(प्र)वृत्तानां कापि यान्ति विनायकाः // 44 // . परमेश्वरप्रसादात् सर्व [भव्यं] भविष्यति / विषादो न विधेयः'। इतस्त्रयत्रिंशतित(यस्त्रिंशत्त)मे दिने निवृत्तिरेष्यति / .........उच्यते 25 मे दिने नृपो राजपाट्यो(व्यै) चचाल / अश्वेनापहृतो व्रजन् वटस " तरोरधो गतः / वेगवशात् शृङ्खलं शाखायां उत्सल्य लग्नम् / गले पासकः समायातः, तुरगो. गतः / नृपान्वेषका [अश्वमादाय गताः / नृपे मृते शाखया भग्नया नृपो भूमौ पपात / इतः श्रीकुमारपालदेवचर आखेटिकरूपेण नृपं पतितं गरुडो हारकुण्डलकान्त्या व्याप्तं दृष्ट्वा भीत इव समीपमायातः। सकुण्डलं नृपसि(स्य) शिरश्छित्त्वा आभरणान्यादाय, स्थाने स्थाने मुक्तैरश्वैः, निर्णीते दिने नृपमेत्य वर्धापयामास / नृपेण पारितोषिक दत्तम् / नृपशिरसः संस्कारं कृत्वा महदुत्सवेन यात्रां चक्रे। " 34. तथा एकदा आनाकः सपादलक्षाधिपतिः शाकंभरपुनि(शाकंभरिपुर्नि)वासी श्रीकुमारपालदेवभगिनीपतिः / पन्या सह क्रीडन् सारैस्तासां मारिमुच्चरति / इतः श्रीप्रेमलदेव्या पत्तने नृपाय ज्ञापितम् - यदसौ सारीणां मारिं कथयति इति च वदति- 'तव बन्धोरेषाऽनिष्टा, मम तु इष्टैव / वरं मे वैधव्यमप्यस्तु, परं [इदं वचः सो नोत्सहे' / राजा कटकमादाय चलितः / कथापितम् - 'यदस्य जिह्वां पाश्चात्ये कर्षयामि' / इतः श्रीआनाकोऽपि गुडहापुरे सपादलक्षसीमायां संमुखः समायातः / तत्र युद्धे जायमाने श्रीकुमारपाल: " स्वगजात् कलहपञ्चाननादुप्लुत्य आना[क]गजे गत्वा तं जयाभिः (ज्याभिः 1) कृष्ट्वा बबन्ध / पश्चात् सहाऽऽयाताः श्रीदेवसूरयः, हेमाचार्याश्च विज्ञप्ताः- 'मम प्रतिज्ञा जिह्वाकर्षणलक्षणा, अतः किं क्रियते ? गुरुभिरुक्तम् - 'देव ! एतन्न युज्यते / तथा कुरु, यथा टोपी कारयित्वा तत्र पाश्चात्ये जिह्वां विधाय, कृष्टत्युक्त्वा मुच्यताम् / तथा कृत्वा 'पुनर्न वाच्यम्' - इत्युक्त्वा पुन(ना) राज्ये संस्थाप्य मुक्तः / तदा श्रीकुमारपालेन तत्र देशे पाषाणमयान् घाणकान् दृष्ट्वा सर्वानमञ्जयत् / पश्चान्निवृत्त्य स्वपुरं गतः / विश्वमल्लः शाकुं(क)" भरीराज्यं करोति / 635. अत्र सिद्धराज्ञि दिवंगते गूर्जरानाशालापतयः अजयमेरुदुर्गप्रत्यासन्ने पछिरापुरे गताः / श्रीविश्वमलेन गूर्जरा[त्रायां यान्ति पटकुलानि निषिद्धानि / गृह्णा(ला)ति (1) स महादण्डेन दण्ड्यते / एकदा कोऽपि स्कन्धवाहिकः यछेरे गतः। एकं श्वेतपट्टकूलं क्रीतं नलीप्रयोगेन पत्तने राजसदसि नृपोपायने कृतम् / खरूपे ज्ञा[ते] भाण्डागारिकस्यार्पितम् / यदेतत् वसनार्थे स्थाप्यम् / अस्माकं तनयस्य // चाहडस्य न दर्शनीयम् / इतः प्रातपति(ती) राजपाट्यां निःसृतः / चाहडं प्रतीक्षन्नस्ति / चाहडेन भाण्डा० सकाशात् पटो याचितः / तेनोक्तम् - 'नृपादेशो नास्ति' / 'मम को नृपादेशः 1, समर्पय' / गृहीत्वा प्रावृत्यागच्छन् नृपेन(ण) दृष्टः। सामन्तैरुक्तम् - 'वणिक (ग) नृपेन(ण) नादेरोपितो (1) नृपाऽज्ञामपि न मन्यते' / इतो न्यग्मुखं नृपं दृष्ट्वा कुमारेणोक्तम् - 'देव ! मया तत् कृतं नास्ति येन तातः कृष्णवदनः स्यात् / परं क्षीरोदकानामेषामप्राप्तिहेतुः बीटकप्रसादं कुरु, यथा तेषां सुभिक्षं करोमि / नृपो न यच्छति / 'भोक्ष्ये मार्गे भूय'