________________ 112-12 चतुरशीतिप्रबन्धान्तर्गत परिणीता / [तां] आनीय बन्दी(न्दि)वत् मुक्ता / नृपस्तां वेत्तीव न / शेषा मान्यतमाः / सा तु दैवमेव उपालमते स्म / अन्यदा पुरे काचित् परिवाजिकागता। सा चेटीमि(भी) राजीसकाशमानीता / तयोक्तम् - "किं वेत्सि? / साऽऽह- . सेमि तं पि सुणं(ससिणं) वसुहावइन्नं, थंभेमि तस्स वि रविस्स रहं नहद्धे / . आणेमि सबसुरसिद्धगणं गणाओ, तं नत्थि भूमिवलए मह जं न सज्झं // 34 // प्रसीद, मम पतिं वसी(शी)कुरु' / तया करे सर्पपा वावि(जपि)त्वाऽपिताः / यथा तथा नृपस्य [भोजन मध्ये देयाः / शाकं कृत्वा शिप्रां भृत्वा चेव्युक्ता-'भोजनावसरोऽस्ति देवस्स नीत्वा परिवेषय' / सा शृङ्गारं कर्तुं गता। देव्या चिन्तितम् -'न ज्ञायते कदाचिदेषा वैरिणा प्रहिता स्यात् ], तदा मे पतिमारिकायाः का गतिः स्याद्' इति मत्वा अधोगवाक्षस्य समुद्रस्तत्र शिप्रां ढाला(ल)यामास / चेटी उक्ता-'तिष्ठतु' / सा काकरोत्पपात(१) / इतस्तेन // वशीकृतः समुद्रो नृपरूपं कृत्वा रात्रौ आयातः / स देव्या नृपवदुपचरितः, नित्यमेति / इतो देवी सगर्भाऽभूत् / चेटी प्राहिणोत्-'देव ! सीमन्तोन्नयनाय मुहूर्त अस्मत्स्वामिन्या गणापयत' / नृप आह-'का त्वम् ? का तब खामिनी ? अहं नामापि तस्या न जाने / कस्य सुता ?, कदा परिणीता ? / तया [यदकृत्यं कृतम् / मम किमुच्यते ? / साऽऽगत्य देवी प्राह / तयोक्तम् –'समये ज्ञास्यते' / इतः पुत्रो जातः / सूतकशुद्धेरनन्तरं बाल मादाय प्रतोलीमेत्योपविष्टा-'मम शुद्धिं यच्छत / जातायां बालः स्तनं ग्रहीष्यति' / नृपेणोक्तम् -'मम . साराऽपि न अधुना / खड्न परिणीता श्रुता, परं दृष्टाऽपि न / पुत्रस्य का वार्ता ? / प्रधानानप्रैषीत् -'एतत् मम न दूषणम् , तव, मया न सोढ[व्य]म्' / सा न मन्यते / पट्टराज्ञी प्रहिता / स्त्री स्त्रीभणितेन परिच्छिपते / सा एत्यावादीत्-'किमिदमारब्धम् ?' / तयोक्तम्-'तव कुले इदं घटते, मम तु न' / नृप[:] खयमेत्य प्राह-'तव ममाधुना दर्शनं न, पुत्रस्य का कथा , उत्थीयताम्' / 'देव ! सर्वथा न, भा(वा) पि दिव्यं विना वाच्या। प्रधानैर्दिव्यं दत्तम् / राज्ञी सुतमादाय बहिर्ययो, पौरसहितो नृपश्च / तत्र लोहमयी नौः, तस्यां समधिरोप्य दिव्यकर्ता क्षिप्यते / शुद्धे तरति, अशुद्धे छुडति / सा राज्ञी इतिकामा श्रावणिकामकार्षीत् / आदित्य-चन्द्रावने(न्द्रावनिलो?) यमश्च, धौभूमिरापो हृदयं मनश्च / अहश्च रात्रिश्च उभये(भेच) सन्ध्ये, धर्मो हि जानाति नरस्य वृत्तम् // 35 // इत्युक्त्वा नावमधिरुरोह / सपुत्रापि त्रुडिता / लोकः कलकलं यावत् करोति, तावन्नावमधिरूढा देवी स. भृङ्गारा, [शृङ्गार] कोटिसाटीपरिदधाना, सहस्रकिरणताडंकाभ्यामलङ्कतकपोला, पापक्षयेन हारेण विराजमानवक्षा. " स्थला, माणिक्यपटेनाच्छादितबाला, संयोगसिद्धिशिप्राकरा सर्वैरपि हृ(ह)ष्य / शुद्धताललाप / नृपेण मध्ये प्रवेशिता / नृपो रात्रौ तद्वेश्मनि इयाय / तयोपचरितः पृष्टवान्-'अहं सर्वथा न जाने, वं(त्वं) तु सत्येव, या समुद्रेण शोधिता'। इतः समुद्रदेवेन प्रत्यक्षीभूय आदितोऽपि खरूपमुक्तम् -'नास्या अपराधः' / नृपेण सुतस्य पालधवल इति नाम दत्तम् / सा राज्ञी पट्टराज्ञी कृता / एतानि [रत्नानि तयैव समर्पितानीति]। कुमारपालनिवारित-मृतधनाहरणवर्णनम् / * 632. अथैकदा नृपो भृगुपो भृगुकच्छं गतः। तत्र कश्चित् श्रेष्ठी अपुत्रः प्रवहणमधिरुह्य परद्वीपे गतः / इतो वार्ता विनष्टस्य जाता। राजा(ज)पुरुषैर्यहं रुद्धम् / तत्पनी सपरिवारा विलपितुं प्रवृत्ता / नृपः कोलाहलमाकर्ण्य वण्ठं प्रेक्ष्य)ष्य वृत्तं ज्ञात्वा प्रातः ख[यं तस्य गृहे गतः / तत्पत्नीमाहूयाऽऽह-'तव प्रियो यद्येति तदा भव्यम्। नैति तदा गृहसारं भुङ्क्ष्व' इत्युक्त्वा तां संबोध्य श्रीपत्तने गतः / पौषधागारमागत्य प्रभुं पप्रच्छ -'प्रभो / पुत्राः कियन्तः / / तैरुक्तम् -'11 /