________________ // नमो मञ्जघोषाय // आचार्यश्रीचन्द्रगोमिविरचितम् उणादिप्रकरणम् उणादयः / 1 / 3 / 1 / 1 कृ-वा-पा-जि-मि-स्वदि-साधि-अशूभ्यः कारु: शिल्पी / वायुः समीरणः / .पायुः अपानम् / जायुः औषधम् / मायु: पित्तम् / गोमायुः सृगाल: / स्वादुः मधुरम् / साधुः परोपकारी / आशु शीघ्रम् धान्यनाम च / 2 दृ-सनि-जनि-चरि-चटि-तलिभ्यः बुण् / दारु काष्ठम् / सानुः गिरिप्रदेशः / जानु जङ्घास्थानम् / चारु शोभनम् / चाटुः स्फुटवादी / तालुः वदनैकदेशः / 3 किम्-जराभ्याम् श-इणः / किंशारुः शारः / जरायुः गर्भवेष्टनम् / 4 कृकात् वचः कश्च / कृकवाकुः कुक्कुट: कृकलासश्च / 5 भृ-म-तृ-चरि-तनि-मस्जि-शीभ्यः उः। भरु: भर्ता / मरु: निर्जलो देशः / तरुः पादपः / चरुः हविष्यान्नम् / तनुः शरीरम् / मद्गुः पक्षिविशेषः / शयुः अजगरः / 6 अणः / अणु सूक्ष्मम् / 7 धान्ये नित् / अणुः व्रीहिः / 8 पटि-असि-वसि-त्रपि-हनि-मनि-इन्दिकन्दि-बन्धिभ्यः / पटुः स्फुटवादी / असुः प्राणः / वसु द्रव्यम् / त्रपु सीसम् / हनुः वदनैकदेशः / मनुः प्रजापतिः / इन्दुः चन्द्रमाः / कन्दुः पाकस्थानम् / बन्धुः स्वजनः / 6 वहि-पंसेः दीर्घश्च / / बाहुः भुजः / पांसुः रेणुः / 10 नमि-मनि-जनां नाकि-ध-तश्च / नाकुः वल्मीकम् / मधु क्षौद्रम् / / जतु लाक्षा। 11 वलि-फलेः गुक् च / वल्गुः मनोज्ञः /