________________ मध्य एशिया के अभिलेख जर 59 संस्कृतच्छाया प्रियदर्शनस्य देवमनुष्य-सम्पूजितस्य प्रियभ्रातुः षोठंग-ल्यिपेयस्य [समीपे] विजालयितव्या (= निर्ग्रन्थीकर्तव्या) [एषा कीलमुद्रा॥ प्रियदर्शनाय देवमनुष्यसम्पूजिताय प्रियभ्रात्रे षोठंग-ल्यिपेयाय चोझ्वो-नस्तिन्तः (= चोझ्बो-पदाधिष्ठित-नस्तिन्ताख्यः जनः) नमस्कारं करोति दिव्यशरीरम् आरोग्यं [च]। (= तद्विषयकं आशीर्वचनं) प्रेषयति बहु अप्रमेयं [च]। एवं च तत् (= यत्) च - “अतः (= ततः) [आ]गतोऽस्मि, तव प्रसादेन अरोगोऽस्मि। कोलिये (= कोलियाख्ये स्थाने) ..... इदानीम् ... / अधुना अत्र (= तत्र) [यं] राजकं (= राजकीयं) उष्ट्री-गणं विसर्जितवानस्मि, तत्र (= तन्मध्ये) त्रैवर्षकः (= त्रिवर्ष-वयस्कः) उष्ट्रः 1 / एषः भूयः राज्याय (= राष्ट्राय) अध्यातं (= निर्विचारं) उद्दातव्यः (= प्रतिदातव्यः)। कीलमुद्रा (= मुद्राङ्कित-कीलकाकार-काष्ठखण्डस्थः लेख:) अत्र हेतौ शक-मोगस्य उपान्ते (= शक-मोगं प्रति) एतत्-कीलमुद्रा वाचयित्वा पुनः शक-मोगाय दातव्या धारणाय (= रक्षणार्थम्) अवश्यम्॥ एते किल्मेकीयाः (= किल्मे-सम्बन्धिनः जनाः; यद्वा-किल्मे-वासिनः) सर्वभावेन [तव। ध्यानिकाः (= ध्यान-विषयाः - परिचरणार्हाः) स्युः। प्रथतः (= प्रथ-नामक-स्थानतः; यद्वा-पथितः) एतं लेखं अत्र (=तत्र) (प्रहितवान् अस्मि; [अतः] प्राभृतार्थाय (= पुरस्कारार्थाय) न स्तिमितव्यम् [इति विचिन्त्य]॥ अपि [च] - एतस्य सुमतस्य (= सुमताख्यस्य जनस्य) [हस्तेन एतम् उष्ट्रीगणं प्रत्यर्पितवानस्मि। इतः उपादाय (= वर्तमानात् प्रभृति) अचोविनाः (- पुरुष-विशेषाः) अचोयतः (= गुल्मात्?) त्वरया निष्काळयितव्याः (= प्रेषयितव्याः) // अपि [च] - श्रमणः धर्मप्रियः नाम सलुवयायाः (= सलुवया-नाम्न्याः नार्याः) गोष्ठे [अस्ति इति] उच्यते। यदा एषः सुमतः अत्र (= तत्र) एष्यति तत् उपादाय (= ततः प्रभृति = तदा) एतस्य श्रमणस्य सुमतस्य हस्ते आज्ञापयितव्यं प्रत्यर्पणाय। एषः श्रमणः भरिमष्टिगेय-नि-(=oमष्टिगेयापरनामा)-मोक्रेयस्य दासः आसीत्। मां प्रति पादः (= तस्य भृत्यस्य [=भृत्यसम्बन्धिनः श्रमस्य। चतुर्थः भागः) विक्रीतः। [क्रय-विषयक]। सर्वं निश्चयं कृतवन्तः स्म। एषः श्रमणः अधुना तव भवतु [पादेन?]"॥