________________ चेदिवंशीय खारवेल का हाथीगुम्फा अभिलेख 53 प्रभृति प्रचीयमाना आसीत्, सः) तृतीये कलिङ्गराज-वंश-पुरुषयुगे (-कलिङ्गराजान्वयस्य तृतीयपुरुषे) महाराजाभिषेचनं प्राप्नोति (-प्राप्नोत्)। अभिषिक्तवान् (= अभिषेकवान् = अभिषिक्तः) च प्रथमे वर्षे वात-विहत-गोपुर-प्राकार-निवेशनं प्रतिसंस्कारयति (= प्रतिसमकारयत्) कलिङ्गनगरी खिबीरम्, शीतलतडागपाल्यः (= ०पारान्) च बन्धयति (= अबन्धयत्); सर्वोद्यान-प्रांतेसंस्थापनं च कारयति (= अकारयत्); पञ्चत्त्रिंशता शतसहसैः [मुद्राणां = कार्षापणानां?] प्रकृती: च रञ्जयति (= अरञ्जयत्)। द्वितीये च वर्षे अचिन्तयित्वा (= अगणयित्वा) शातकर्णिं पश्चिमदिशं हय-गज-नर-रथ-बहुलं दण्डं (= सेनादलं) प्रस्थापयति (= प्रास्थापयत्); कृष्णवेण्वा-गतया (= कृष्णानदीतीरगतया) च सेनया वित्रासयति ऋषिकनगरम् // तृतीये पुनः वर्षे गन्धर्व-वेद-बुधः [खारवेलः] दर्पनृत्यगीतवादित्र-सन्दर्शनैः उत्सव-समाज-कारणाभिः च क्रीडयति (=अक्रीडयत्) नगरीम् (= राजधानीम्॥ तथा चतुर्थे वर्षे विद्याधराधिवासम् अहत-पूर्वं कलिङ्ग-पूर्वराज-निवेशितं ....... वितथमुकुट ..... च निक्षिप्तच्छत्रभृङ्गारं हृतरत्नसम्पत्तिकं सर्व-राष्ट्रिक-भोजक पादौ वन्दयति॥ पञ्चमे व इदानीं वर्षे नन्दराज-त्रिवर्षशतोद्घाटितां (= त्रिशतवर्षो०) तन-सुलिय (= तुण-सूर्य?)-वर्त्मनः प्रणाली नगरं (= राजधानी) प्रवेशयति ....... / अभिषिक्तः च षष्ठे वर्षे राजैश्वर्यं सन्दर्शयन् सर्वाकारवर्णानुग्रहानेकानि शतसहस्राणि [मुद्राणां] विसृजति पौर-जानपदम् [उद्दिश्य]॥ सप्तमं च वर्ष प्रशासत् ....... // अष्टमे च वर्षे महता सेना ..... गोरथ-गिरिं घातयित्वा (= धर्षणानन्तरं) राजगृहम् उपपीडयति (= उपापीडयत्); एतेन कर्मापदान-संनादेन (= दुष्करकर्मसम्पादन-शब्देन) ....सेनावाहनं विप्रमोक्तुं [भयात् मधुरां (= मथुराम्) अपयातः (= पलायितः) यवनराजः डिमितः (?) .....यच्छति ... पल्लव .... कल्प-वृक्षः हय-गज-रथैः सह याति [खारवेलः] सर्व-गृहावास ....... सर्वग्रहणं च कारयितुं ब्राह्मणेभ्यः जय-परिहारं ददाति (= अददात्)। ...... [नवमे च वर्षे] .... [राज-सन्निवासं] महाविजय-प्रासादं कारयति अष्टत्रिंशता शतसहसैः [मुद्राणाम् // दशमे च वर्षे दण्ड-सन्धि-साम-मयः [खारवेलः] भारतवर्ष-प्रस्थानां .... .. कारयति (= अकारयत्)। एकादशे च वर्षे ..... अपयातानां (= पलायितशत्रूणां) च मणिरत्नानि उपलभते (= उपालभत)। ... पूर्वं राजनिवेशितं (= कस्यचित् राज्ञः राजधानी) पीथुण्डं गईभ-लाङ्गलेन कर्षयति (= अकर्षयत्); जनपदभावनं च त्रयोदशवर्षशतकृतं (= वर्ष-त्रयोदशशत-कृतं) भिनत्ति (=अभिनत्) तिमिर-हृद-सङ्घातं (यद्वा - त्रमिरदेश-सङ्घातम्?)। द्वादशे च वर्षे ....... सहसैः वित्रासयति उत्तरापथ-राजान् ..... मागधानां च विपुलं भयं जनयन् हस्त्यश्वं गङ्गायां पाययति; मागधं च राजानं बृहस्पतिमित्रं पादौ वन्दयति नन्दराज-नीतं च कलिङ्ग-जिनं सन्निवेश ........ अङ्ग-मगध-वसुं च नयति;