SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 34 प्राकृत पाठ-चयनिका संस्कृतच्छाया 1. देवानां प्रियः प्रियदर्शी राजा एवम् आह। अस्ति जनः उच्चावचं मङ्गलं करोति। आबाधे वा 2. आवाहे विवाहे वा पुत्रलाभे वा प्रवासे वा एतस्मिन् च अन्यस्मिन् च जनः उच्चावचं मङ्गलं करोति। 3. अत्र तु महिलाः बहुकं च बहुविधं च क्षुद्रकं च निरर्थकं च मङ्गलम् कुर्वन्ति। तत् कर्तव्यं तु मङ्गलम्। अल्पफलं तु खलु 4. एतादृशं मङ्गलं। इदं तु महाफलं मङ्गलं यत् धर्ममङ्गलम्। तत् इदं दासभृतकेषु सम्प्रतिपत्तिः गुरुणाम् अपचितिः साधु 5. प्राणेसु संयमः साधु ब्राह्मणश्रमणेभ्यः साधु दानम्। एतत् च अन्यत् च एतादृशं धर्ममङ्गलं नाम। तत् वक्तव्यं पित्रा वा। 6. पुत्रेण वा भ्रात्रा वा स्वामिकेन वा इदं साधु इदं कर्तव्यं मङ्गलम् यावत् तस्य अर्थस्य निष्ठानाय। अस्ति च अपि उक्तं 7. साधु दानम् इति। न तु एतादृशं अस्ति दानं वा अनुग्रहो वा यादृशं धर्म दानं वा धर्मानुग्रहो वा। तत् तु खलु मित्रेण व सुहृदयेन वा 8. ज्ञातिकेन वा सहायेन वा वक्तव्यं तस्मिन् प्रकरणे इदं कृत्यं इदं साधु इति। एतेन शक्यं 9. स्वर्गम् आराधयितुम् इति। किश्च अनेन कर्तव्यतरं यथा स्वर्गालब्धिः।
SR No.004280
Book TitlePrakrit Path Chayanika Ucchatar Pathyakram
Original Sutra AuthorN/A
AuthorB L Institute of Indology
PublisherB L Institute of Indology
Publication Year2012
Total Pages124
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy