________________ 108 प्राकृत पाठ-चयनिका [नात्र एषोऽपराध्यति। एष खल्वत्रापराध्यति। अरे रे राजश्यालक संस्थानक दुर्जन दुर्मनुष्यः, युक्तं नेदम्। यद्यपि नाम तत्रभवानार्यचारुदत्तो दरिद्रः संवृत्तः। तत्कि तस्य गुणैर्नालंकृतोज्जयिनी येन। तस्य गृहं प्रविश्य परिजनस्येदृश उपमर्दः क्रियते। मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम। चारित्र्येण विहीन आढ्योऽपि च दुर्गतो भवति॥] विट:-(सवैलक्ष्यम्) महाब्राह्मण, मर्षय मर्षय। अन्यजनशङ्कया खल्विदमनुष्ठितम्, न दर्यात्। पश्य, सकामान्विष्यतेस्माभिः। विदूषकः-किं इअम्। (किमियम्) विटः-शान्तं पापम्। काचित्स्वाधीनयौवना। सा नष्टा शङ्कया तस्याः प्राप्तेयं शीलवञ्चना // 44 // सर्वथा इदमनुनयसर्वस्वं गृह्यताम्। (इति खड्गमुत्सृज्य कृताञ्जलिः पादयोः पतति।) विदूषकः-सप्पुरिस, उद्वेहि उद्वेहि। अआणन्तेण मए तुम उवालद्धे। संपदं उण जाणन्तो अणुणेमि। (सत्पुरुष, उत्तिष्ठोत्तिष्ठ। अजानता मया त्वमुपालब्धः। सांप्रतं पुनर्जानन्ननुनयामि।) विट:-ननु भवानेवात्रानुनेयः। तदुत्तिष्ठामि समयतः। विदूषकः-भणादु भवम्। (भणतु भवान्।) विट:-यदीमं वृत्तान्तमार्यचारुदत्तस्य नाख्यास्यसि। विदूषकः-न कधइस्सम्। (न कथयिष्यामि।) विट:एष ते प्रणयो विप्र शिरसा धार्यते मया। गुणशस्त्रैर्वयं येन शस्त्रवन्तोऽपि निर्जिताः // 45 // शकारः-(सासूयम्।) किं णिमित्तं उण भावे, एदश्श दुट्टबंडुअश्श किविण-अञ्जलिं कदुअ पाएशु णिवडिदे। (किंनिमित्तं पुनर्भाव, एतस्य दुष्टबटुकस्य कृपणाञ्जलिं कृत्वा पादयोर्निपतितः।) विट:-भीतोऽस्मि। शकारः-कश्श तुमं भीदे। (कस्मात्त्वं भीतः।)