________________
१२
श्रीतिलकाचार्यविरचितटीकायुतम्
कृत्वा धृतदिमध्ये तं, दिर्नान्यूनान्यपूरयत् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् ।।२७।। तमश्नन्त्याश्च मातुस्तद्-बिन्दुर्मूथ्र्यपतच्छिशोः । नोदगुस्तत्प्रदेशेऽथ, केशाः सस्यमिवोखरे ।। २८ ।। अत एवाभवद्विन्दु-र इ-सार इत्यभिधा तव । तदेवं वत्स ! चाणिक्यः, प्राणदो राज्यदश्च ते ।। २९।। तत्सर्वं तन्मुखाच्छ्रुत्वा, स्वरूपं भूपतिस्तदा । तत्र गत्वा पदोर्लग्न-श्चाणिक्यं स्माह भक्तिमान् । । ३० ।। अज्ञानेनास्यवज्ञातस्तात मा मां ततस्त्यज । पुरीषमुत्सृजत्यङ्के, डिम्भश्चेत् त्यज्यते स किम् ? ।।३१।।
तत्प्रसीद गृहीँनेहि, शाधि साम्राज्यमात्मनः ।
स ऊचे वत्स! पर्याप्तं, यत्सम्प्रत्यनशन्यहम् ।।२३।। ततो राजा वलित्वागाद्, गतसर्वस्ववद्रुदन् । हाभूवमकृतज्ञोऽहमिति स्वं हीलयन्मुहुः ।। ३३ ।। दध्यौ सुबन्धुर्यद्येष, कथं च न निवर्तते । समूलकाषं मद्वर्गं, कर्षॆत्येव ध्रुवं ततः ।।३४।। विचिन्त्येति शठः साश्रु-र्नृपमुचे सगद्गदः । देवाविमृश्यकृत्त्वेना- नर्थोऽभूदेष दैवतः ।। ३५ ।। देवाज्ञया तदेतर्हि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सपर्या - र्भाववृद्धिं करोम्यहम् ।। ३६ ।। ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृत्वार्चां न्यस्य चोपान्ते, धूपाङ्गारं गतः कुधीः ।। ३७।। चाणिक्योऽप्यग्निना तेन, तप्यमानो महामनाः । भावनां भावयामास, दु:कर्मप्लेवगोरगीम् ।।३८।।
० तो ० ८ ।। १. गर्भकाले १० टि० ।। त्व० ५-८ ।। ०या० ८ ।। ०दे ल० २ ।। २. सुबन्धुमन्त्रिणोऽज्ञानेन ८ टि० 1) ३. बालः उत्सङ्गे, पुरीषमुत्सृजति स बालः किं त्यज्यते ८ टि० ।। है हमे० ८ ।। + ० ० ८ ।। ०नृ० २.५.७.८ ।। ०कृत्वे० २.५.६.८ ।। ० तपाः ५-८.१०, अयं पाठः १० टि० दृश्यते ।। ४. चोतरफ अङ्गारा राख्या, धूप० दुष्टसर्वकर्मनासने एतादृशीं भावनां भावयामास ८ टि०, दुष्कर्मरूपस्य प्लवगस्य मण्डूकस्य नाशेन सर्पसदृश भावनाम् ।। ५. मण्डूकः ३ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org