________________
श्रीदशवैकालिकसूत्रम्
॥ द्वितीयं श्रामण्यपूर्वकम् ।। अस्यायमभिसम्बन्धः, अनन्तराध्ययने धर्मः प्रशंसितः। स च श्रीमण्ये सति स्यात्, अतः श्रामण्यमिह वाच्यमित्याह
कहं नु कुजा सामण्णं, जो कामे न निवारए । पए पए विसीयंतो, संकप्पस्स वसंगओ ।।१।।
कथं नु कर्यात् श्रामण्यम् । यः कामान्-शब्दादिविषयान् । न निवारयतिन निषेधयति । संकल्पस्य-अप्रशस्तविषयाध्यवसायस्य । वशंगतः, पदे पदे-एकैकस्मिन्नपि शब्दादिविषये स्वस्वेन्द्रियविषयमागच्छति सति । विषीदन्-श्रीमण्ये श्लथीभवन् । न क्षेपे, कुंश्रामण्यकृत् भवतीत्यर्थः ।।क्षान्त !न शक्नोमीत्यादिवाक् क्षुल्लकवत् । स च कः क्षुल्लक इति तत्कथोच्यते । तद्यथा
॥क्षुल्लक कथा ।। इहैकस्मिन् महागच्छे, स्वच्छेऽब्दोज्झितवारिवत् । अतीव वत्सलेऽन्योन्यं, सोदरेष्विव साधुषु ।। १ ।। श्रीधर्मधोषसूरीणां, सुदुःसहतपस्विनाम् । 'देहकान्त्यास्तभूरीणां, चरणाम्भोजसन्निधौ ।।२।।
एकः पुमान् प्रवव्राज, सपुत्रः पुत्रवत्सलः । तस्योपात्तव्रतस्यापि, पुत्रोऽभूत् प्राणवल्लभः ।।३।।
अन्येद्युः क्षुल्लकोऽवोचत्, कर्कशे काश्यपीतले । न विनोपानहौ हन्त, क्षन्ति ! चङ्क्रमितुं क्षमः ।।४।। स्यान्मुनेश्चरणात्राणं, चरणत्राणयोगतः ।
क्षान्तस्तथापि कारुण्याद्, ददौ स्नेहादुपानहौ ।।५।। १. पश्चादध्ययने ६ टि० ।। २. चारित्रे ६ टि० ।। * ०ति संक० ६ ।। ॐ स्वमिं० ५-१० ।। ३. चारित्रे शिथिलीभवन् ६. टि० ।। - भवेत् ६.८.९ ।। ४. नु वितर्के ६ टि० ।। * नु ११ ।। ५. कुत्सितचारित्रकृत् ६ टि० ।। ६. पितेव ९ टि० ।। ७. निर्मले ६ टि० ।। ८. पर्वत, वद्दलात्तक्त [वर्दलात् त्यक्त] जलवत् इति ८ टि० ।। ९. अतीव जीवरक्षके ८ टि० ।। १०. परस्परभातृषु इव ८ टि० ।। ११. अन्तसि तपतेजवताम् ८ टि० ।। १२. सुवर्णानाम् २ टि० ।। १३. कठोरपृथ्वीतले ८ टि० ।। १४. भूमी २ टि० ।। चरण ५.६ ।। १५. चारित्रस्यारक्षणम् इत्यर्थः ।। १६. उपानत् जोगतः ८ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org