SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ५१८ श्रीतिलकाचार्यविरचितटीकायुतम् दशकालिकटीकासौ, सकलाप्यामूलचूलमेकाग्रैः । श्रीपालचन्द्रसूरिभि-रस्मच्छिष्यैरशोधयत् ।।११।। आर्या इह श्लोकसहस्राणां, सप्तकं सर्वसङ्ख्यया ।। प्रत्यक्षरेण सङ्ख्याय, निश्चिकाय कविः स्वयम् ।।१२।। यावद् विजयते तीर्थं, श्रीमद्वीरजिनेशितुः । तावदेषा मरालीव, खेलतात् कृतिमानसे ।।१३।। । खम्भातताडपत्रीयप्रतलेखनप्रशस्तिः ।। ७००० ग्रन्थाग्रं सप्तसहस्राणि सकलमपि सम्पूर्णानि । शुभमस्तु सर्वजगतः, परहिनिरता भवन्तु भूतगणा । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोकः ।छ।। यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ।।१।। अग्नौ रक्षेज्जले रक्षेद् रक्षेत् शिथिलबंधनम् । कष्टेन लिख्यते शास्त्रं, पुत्रवत् प्रतिपालयेत् ।।२।। श्रीप्रज्ञातिलकसूरीणां दशवैकालिकपुस्तकमिदं । पं. माणिक्यतिलकेन शोधितं। मंगलं महाश्रीः । . सुखमनुपमं स श्रीनेमिस्तनोति तनूमतां, दिशि दिशि गता यस्य स्फाराः शरीरमरीचयः। भुवनमहिते राजीमत्या विवाहमहोत्सवे मदनजयिनः संराजन्ते शरा इव तेजिताः ।।१।। हरिणी अतुच्छगाम्भीर्यनिवासभूमिर्नदीनभावप्रथितः पृथिव्याम् ।। ऊकेशवंशोऽस्ति पयोधिकल्पश्चित्रं तु जागर्ति जिनो यदन्तः ।।२।। उपजातिः तस्मिन्नादिमपुरुषावुभावभूतां नितान्तकान्तगुणौ । प्रथमो दाहडनामा वरणिगनामा द्वितीयश्च ।।३।। आर्या तत्राभूद् भूतहिता वाल्हेविर्वरणिगस्य सद्गृहिणी । आनखशिखाग्रमग्र्यैः, परिपूर्णा विमलगुणानिवहैः ।।४।। तस्यामभूद् वरणिगस्य सुतः सुतीर्थ-वित्तव्ययार्जितयशाः किल देवचंद्रः । एकं बभूव खलु देवसिरिः कलत्रं, तस्य प्रशस्यामपरं ननु देमतेति ।।५।। वसन्त० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy