________________
५१६ - श्रीतिलकाचार्यविरचितटीकायुतम्
कथमित्याहजत्थेव पासे कइ दुप्पउत्तं, कायेण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा, आइन्नो खिप्पमिव खलीणं ॥१४॥
यत्रैव पश्येत् क्वचित्-संयमस्थाने धर्मोपधिप्रेक्षणादौ । दुःप्रयुक्तम्दुर्व्यवस्थितमात्मानम् । केन ? कायेन, वाचा अथ मानसेन । तत्रैव-संयमस्थानम् । धीरः प्रतिसंहरेत्-सम्यग्विधिना प्रतिपद्येत । यथा जात्यादिभिराकीर्णः-जात्योऽश्वः । क्षिप्रमेव खलीनम्-कविकं प्रतिपद्यते । एवं साधुदुःप्रयुक्तत्वत्यागेन खलिनकल्पं सम्यग्विधिं प्रतिपद्यते ।।
यः पूर्वरात्रापररात्रेत्यधिकारोपसंहारार्थमाहजस्सेरिसा जोग जिइंदियस्स, धिईमओ सप्पुरिसस्स निझं । तमाहु लोए पडिबुद्धजीवी, सो जीवइ संजमजीविएणं ।।१५।।
यस्येदृशाः-स्वहितालोचनप्रवृत्तिरूपाः । योगा:-मनोवाक्कायव्यापाराः । जितेन्द्रियस्य धृतिमतः सत्पुरुषस्य । नित्यं तमाहुलॊके विद्वांसः प्रतिबुद्धजीवितम्प्रमादनिद्रारहितजीवितम् । सः-एवं गुणयुक्तः सन् साधुः, जीवति संयमजीवितेन ।। . शास्त्रार्थमुपसंहरनुपदेशसर्वस्वमाहअप्पा खलु सययं रक्खियब्बो, सव्विंदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुइ त्ति बेमि ॥१६॥
आत्मा खलु सततं रक्षितव्यः । सर्वेन्द्रियैः-स्पर्शनादिभिः । सुसमाहितैःनिवृत्तस्वविषयव्यापारैः । अरक्षितो जातिपथम्-संसारमार्गम् उपैति । सुरक्षितः सर्वदुःखेभ्यो विमुच्यते-मोक्षं महानन्दपदं समासादयति । इति-समाप्तौ । ब्रवीमीति पूर्ववत् ।।
इति श्रीतिलकाचार्यविरचितायां दशवैकालिक
टीकायामुत्तरचूलिकयोः टीका समाप्ता ।।
१. अश्वमुखस्थम् १० टि० ।। * जीवितं १.३-६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org