________________
___५११
श्रीदशवैकालिकसूत्रम् ॥ अथ द्वितीया विविक्तचर्या चूलिका ।। अधुना द्वितीया व्याख्यायते । इदमादिसूत्रं, तस्याः । चूलियं तु पवक्खामि, सुयं केवलिभासियं । जं सुणित्तु सपुत्राणं, धम्मे उप्पजई मई ।।१।।
चूलिकां तु प्रवक्ष्यामि । श्रुतं केवलिभाषितम्-केवलिना श्रीसीमन्धरस्वामिना श्रीमुखेन भाषितम् । यत् श्रुत्वा सपुण्यानाम्-प्राणिनाम् । धर्मे उत्पद्यते मतिः । इयं गाथा अन्यकर्तृकीव लक्ष्यते ।।
इह चर्यागुणा वाच्याः । तत्प्रवृत्तौ मूलसूत्रमिदमाहअणुसोयपट्ठिएबहुजणंमि, पडिसोयलद्धलक्खेण । पडिसोयमेव अप्पा, दायव्यो होउकामेणं ।।२।।
अनुश्रोतःप्रस्थिते-नदीपूरप्रवाहपतितकाष्ठवत् । विषयरसप्रवाहवाहिते बहौ जने तथा प्रस्थानेन भवोदधिामिनि विषयविरक्तिरूपः प्रतिश्रोतो लब्धसंयमलक्षेण । प्रतिश्रोत एव-विषयाद्यपाकृत्य संयमलक्ष्याभिमुख एव । आत्मा दातव्यः-प्रवर्तितव्यो भवोदधिपरित्यागात् । मुक्ततया भवितुकामेन-साधुना न क्षुद्रचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतः कार्यम् । उक्तं च
निमित्तमासाद्य, यदेव किञ्चन, स्वधर्ममार्ग, विसृजन्ति बालिशाः । तप:श्रुतज्ञानधनाः हि साधवो, न यान्ति कृच्छ्रे, परमेऽपि विक्रियाम् ।।१।। वंशस्थविलम्
तथा
कपालमादाय, विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रतार्थेऽपि समाहितं मनः ।।२।। वंशस्थविलम् समाधानं प्रापितं चेतः ।। पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः । प्राणात्ययेऽपि न तु साधुजनस्ववृत्तं,वेलां समुद्र इव लवयितुं समर्थः ।।३।।
वसन्ततिलका अधिकृतमेव समर्थयन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org