________________
श्रीतिलकाचार्यविरचितटीकायुतम्
अङ्गानां क्रमतः स्थितिं गुरुतया, विज्ञाय चिचक्षुषा,
वृद्धायाः श्रुतसम्पदोऽर्नुसमयं, यान्त्याः प्रभोराज्ञया । यावद् दुःप्रसभाभिधं गुरुमतो हस्तावलम्बं ददौ,
यः कृत्वा दशकालिकं मुनिपतिः शय्यम्भवः सोऽवँतात् ।।४।।. शार्दूलविक्रीडितम्
शय्यम्भवस्य श्रुतरत्नसिन्धोः, संर्वस्वभूतं दशकालिकं यत् । उत्पाद्य बह्वर्थ-सुवर्णकोशं, तद्भव्यसुग्राह्यमहं करोमि ।। ५।। इन्द्रवज्रा इह सर्वेऽपि शास्त्रकाराः सुविदितसुकविसमयसमाचाराः शास्त्रादौ दर्शिता - खिलप्रैबलप्रत्यूहव्यूहापहारँसमुचितेष्ट देवतानमस्काराभिधेयसम्बन्धप्रयोजन लेख निर्मापितानेकमङ्गलशतसहस्राश्लेषमभिमुखीकृतसकलश्रोतृलोकं श्लोकं लिखन्ति, परं क्रियमाणेष्वपि शैतकृत्वोऽपि मङ्गलेषु यदि कर्ता न प्राग्भवे प्रशमितकर्मधर्मः शुद्धो धर्मः कृतः स्यात् तत्तन्मनोरथः प्रमाणपदवीमदवीयसीमधिरोहति । धर्मस्यैव निखिलमङ्गलाभ्युदयहेतुत्वात् ।
१५
अत एव पूज्यश्रीशय्यम्भवसूरिमिश्रा अपि दशवेकालिक श्रुतस्कन्धप्रारम्भेऽभिधेयसम्बन्धप्रयोजनानुगं मङ्गलार्थं धर्ममेवोपश्लोकयन्ति स्म ।।
१६
तथा हि
धम्मो मंगलमुक्कट्ठ, अहिंसा संजमो तवो ।
देवा वि तं नमसंति, जस्स धम्मे सया मणो ॥ १ ।।
१. अङ्गारी स्थित गुरुत्वं विज्ञाय [अङ्गोनी स्थिति सारी रीते जाणीने ] इति कृतं एतत् दशकालिकं कृतं शय्यम्भवः सूरिवृद्धश्रुतसम्पदः प्रति समृद्धं याति ८ टि० ।। २. गरिष्टतया ६ टि० ।। ३. ज्ञानचक्षुषा ६ टि० ।। ४. समयं समयं प्रति ६ टि० ।। ५. दूपसहाचार्यनामानं गुरुं विज्ञाय ६ टि०, दुपसहसूरितांई [सुधी] दशवीकालिक रहसी ८ टि० ।। ६. शय्यम्भवनामा सूरीश्वरः ६ टि० ।। ७. रक्षतु ६ टि० ।। ८. शास्त्रमणिसमुद्रस्य ६ टि० ।। ९. सर्वसारभूतं वर्तते ६ टि०, सर्व आगम सारांस वागमस्य प्रमाणनीयं एतत्अर्थ भलो सुग्राह्यमहं करोमि ८ टि० ।। उद्वाच्य ८, उद्घाट्य १० ।। १०. दूषणोर्मिबहिर्भूतैर्गुणरत्नगणैः श्रितम् । संसारवारिधेस्तीरं वीरजिनमुपास्महे ।। हस्तः शस्तः सदा येषां भास्वद्योगप्रभावतः । कल्पितार्थफ्लस्तेभ्यः, श्रीगुरुभ्यो नमो नमः ।। ३ प्रतौ टिप्पण्यां एतौ द्वौ श्लोकावधिको ।।११. प्रबल - घणो प्रत्यूह - विघ्न तस्य
व्यूह समूह तस्यापहारं दुरं करणो तस्य हेतो इष्टदेवतानमस्कारकृतवान् तदनन्तरमभिधेयादिज्ञापनम् ८ टि० 11 वी 4-8 // PP. प्रकाशनम् ? टिक कथन : टिο22 शतेषु पडलेषु क्रतेषु अपि यदि पूर्वभवे प्रशमितकर्मतापः एतादृशः शुद्धो धर्मः न कृतः, तदा मनोरथप्रमाणपदवी न घणी पामं धर्मात् एव मनोरथानि सम्पूर्णान् प्राप्नोति ८ टि० ।। १४. निकट १० टि० ।। १५. पूज्या ८ टि० ।। १६. कथयन्ति स्म ६ टि०, व्यापनं कीयो - वर्णन कीयो धर्ममङ्गलार्थम् ८ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org