________________
सप्तमाध्यायस्य प्रथमः पादः ॥
तस्याऽर्हे क्रियायां वत् ॥ ७।१५१ ॥
[तस्य ] तस्य पञ्चमी ङसि । सूत्रत्वात् (लोपः) । [अh ] अर्ह सप्तमी ङि। [क्रियायाम् ] क्रिया सप्तमी ङि । [वत् ] वत् प्रथमा सि । ईयस्य पूर्णोऽवधिः ।
[राजवत् वृत्तमस्य राज्ञः] राजन् मण्ड्य ते । राज्ञोऽर्ह = राजवत् । अनेन वत्प्र० । सि । 'अनतो लुप्' (३।२।६) . लुप् । वृत्त सि-अम् । राजत्वस्य युक्तमस्य राज्ञो वृत्तमित्यर्थः ।
[राजवदवर्तते भरतः] राज्ञोऽर्ह = राजवत् क्रियाविशेषः । राजाहं वर्तते स्मेत्यर्थः । अत्राद्यत्वात् न भरतस्योपमानमन्यो राजाऽस्ति, स एव सर्वेषां राज्ञामुपमानभूतस्तत्र राजवदिति, राज्ञ आत्मन एवार्ह वृत्तमवर्तत इत्यर्थः । भरतः ।
[कुलीवनत् ] कुलीनस्याह = कुलीनवत् । अनेन वत्प्र० । [साधुवत् ] साधोरहँ = साधुवत् । अनेन वत्प्र० ।
[स शिरांसि द्विषामाजौ चिच्छेद कृतहस्तवत्] कृतहस्तस्य शिक्षिता युधस्याहँ = कृतहस्तवत् । अनेन वत्प्र० । यत उक्तं नाममालायाम् "कृतहस्तः. कृतपुङ्खः" (श्लोकाङ्कः ७७२) ।।
स्यादेरिवे ॥ ७।१५२ ॥ [स्यादेः ] स्यादि पञ्चमी ङसि । [इवे] इव सप्तमी ङि। [क्षत्रियवद्युध्यन्ते ब्राह्मणाः] क्षत्रिया इव = क्षत्रियवत् । अनेन वत्प्र० । युध्यन्ते ब्राह्मणाः । [अश्ववद्धावति चैत्रः ] अश्व इव = अश्ववत् । अनेन वत्प्र० । धावति चैत्रः । [देववत्पश्यन्ति मुनिम्] देवमिव = देववत् । पश्यन्ति मुनिम् । [साधुवदाचरितं मैत्रेण ] साधुनेव = साधुवत् । आचरितं मैत्रेण । [ब्राह्मणवद्दत्तं क्षत्रियाय ] ब्राह्मणायेव = ब्राह्मणवद्दत्तं क्षत्रियाय । [पर्वतवदवरोहति आसनात् ] पर्वतादिव = पर्वतवदवरोहति आसनात् ॥छ।।
तत्र ॥७॥१५३ ॥
[तत्र] तत्र प्रथमा सि । सूत्रत्वात् (लोपः) । [मथुरावत् पाटलिपुत्रे प्रासादा:] मथुरायामिव = मथुरावत् । पाटलिपुत्रे प्रासादाः । अनेन वत्प्र० ।।
[स्रुघ्नवत् साकेते परिखा] सह आकेतैर्गृहैर्वत्तते । अथवा सा-लक्ष्मीः, कं-सुखं, ताभ्यामितं = साकेतम् । स्रुघ्न इव = स्रुघ्नवत् साकेते परिखा । अनेन वत्प्र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org