SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०२ . श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । - [अचापलम्, आचापलम् ] न चपलोऽचपलः, अचपलस्येदम् = अचापलम्, आचापलम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । शेषं पूर्ववत् । [अनैपुणम्, आनैपुणम् ] न निपुणोऽनिपुणः, अनिपुणस्येदम् = अनिपुणम्, आनैपुणम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । अनेन वृद्धिः ऐ, उत्तरपदे आदौ तु विकल्पेन । [अशौचम्, आशौचम्] न शुचिरशुचिः । 'नजत्' (३।२।१२५) न० → अ० । अशुचेरिदम् = अशौचम्, आशौचम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । अनेन वृद्धिः औ, उत्तरपदे आदौ तु विकल्पेन । [अशौचम्, आशौचम्] न विद्यते शुचिरस्येति वा अशुचिस्तस्य भावः कर्म वा = अशौचम्, आशौचम् । 'य्ववर्णाल्लध्वादेः' (७।१।६९) अण्प्र० → अ । अनेन वृद्धिः, उत्तरपदे आदौ तु विकल्पेन । [आयथातथ्यम् ] न यथा = अयथा, अयथातथा इत्येतस्य भावः = आयथातथ्यम् । 'पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । वृद्धिः । [अयाथातथ्यम् ] यथातथा इत्येतस्य भावः = यथातथ्यम् । 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र० → य । वृद्धिः । न याथातथ्यम् = अयाथातथ्यम् । [आयथापुर्यम् ] अयथापुरेत्येतस्य भावः = आयथापुर्यम् । 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०. → य । यापुर्यम् ] यथापुरेत्येतस्य भावः = य(या)थापुर्यम् । 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र० → य । वृद्धि । न य(या)थापुर्यम् = अय(या)थापुर्यम् । __ [यथा आचतुर्यम् ] यथा न चतुर(:) = अचतुर(:), अचतुर इत्येतस्य भावः = आचतुर्यम् । 'पतिराजान्तगुणाङ्ग' (७।१।६०) ट्यणप्र० → य । वृद्धिः । [अचातुर्यम् ] चतुर इत्येतस्य भावः = चातुर्यम् । 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । न चातुर्यम् = अचातुर्यम् । 'नजत्' (३।२।१२५) न० → अ० । यथातथा यथापुरा इत्यखण्डमव्ययं वा 'नाम नाम्नः' (३।१।१८) इति समासो वा 'यथाऽथा' (३।११४१) इत्यव्ययीभावो वा अकारान्तः अव्ययीभावस्य नपुंसकत्वे 'क्लीबे' (२।४।९७) इत्यनेन हुस्वः ॥छ।। ___ जङ्गल-धेनु-वलजस्योत्तरपदस्य तु वा ॥ ७।४।२४ ॥ [जङ्गलधेनुवलजस्य ] जङ्गलश्च धेनुश्च वलजश्च = जङ्गलधेनुवलजम्, तस्य । [उत्तरपदस्य] उत्तरपद षष्ठी ङस् । [तु] तु प्रथमा सि । [वा] वा प्रथमा सि । आदेरित्यनुवर्त्तते । वेति तु निवृत्तम् । उत्तरपदस्य वेत्यकरणात् । [कौरुजङ्गलः, कौरुजाङ्गलः ] कुरुजङ्गलेषु भवः = कौरुजङ्गलः, कौरुजाङ्गलः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन आदौ वृद्धिः, उत्तरपदे तु विकल्पेन । [वैश्वधेनवः, वैश्वधैनवः] विश्वस्य धेनुषु भवः । यद्वा विश्वधेनोरपत्यं = वैश्वधेनवः, वैश्वधैनवः । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । अनेन आदौ वृद्धिः, उत्तरपदे तु विकल्पेन । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy