________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२२९
[सन्तमसम्] सन्ततं तमः, सन्ततं तमसा । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।१।४७) इत्यादिना समासः । अनेन अत्समासान्तः → अ । सन्ततं तमोऽस्मिन् वा = सन्तमसम् । अनेन अत्समासान्तः → अ ।
[अवतमसम्] अवहीनं तमः, अवहीनं तमसा, अवहीनं तमोऽस्मिन् वा = अवतमसम् । अनेन अत्समासान्तः → अ।
[अन्धतमसम्] अन्ध । अन्धं करोति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिचप्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अन्धयतीति । 'अच्' (५।१।४९) अच्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् । अन्धं च तत्तमश्च-अन्धं तमोऽस्मिन्निति वा = अन्धतमसम् । अनेन अत्समासान्तः → अ ।
[अन्धत्मसम्, अन्धतमसे वा] अन्धश्च तमश्चेति अन्धतमसम् । अनेन अत्समासान्त: → अ । समाहारे वाक्यम् । अन्धतमस औ । 'औरी:' (१।४।५६) ई । इतरेतरे वाक्यम् ।
तप्ता-ऽन्ववाद् रहसः ॥ ७॥३८१ ॥
[तप्ताऽन्ववात् ] तप्तश्च अनुश्च अवश्च = तप्ताऽन्ववम्, तस्मात् । [ रहसः] रहस् पञ्चमी ङसि । रह इति अप्रकाश्यं विजनं वा । [तप्तरहसम् ] तप्तं तप्ताय इवानधिगम्यं रहः = तप्तरहसम् । अनेन अत्समासान्तः → अ । [तप्तरहसः ] तप्तं रहोऽस्येति तप्तरहसः । अनेन अत्समासान्तः → अ । [अनुरहसम्] अनुगतं रहोऽनुगतं रहसा वा = अनुरहसम् । अनेन अत्समासान्तः → अ । [अनुरहसः ] अनुगतं रहोऽस्येति अनुरहसः । अनेन अत्समासान्तः → अ । [अवरहसम्] अवहीनं रहोऽवहीनं रहसा वा = अवरहसम् । अनेन अत्समासान्तः → अ । [अवरहसः] अवहीनं रहोऽस्येति वा = अवरहसः । अनेन अत्समासान्तः → अ ॥छ।।
प्रत्यन्ववात् साम-लोम्नः ॥ ७।३।८२ ॥ [प्रत्यन्ववात्] प्रतिश्च अनुश्च अवश्च = प्रत्यन्ववम्, तस्मात् । [सामलोम्नः ] साम च लोम च = सामलोम, तस्मात् । [प्रतिसामम् ] प्रतिगतं साम = प्रतिसामम् । अनेन अत्समासान्तः → अ । [प्रतिसामः] प्रतिगतं सामास्येति प्रतिसामः । अनेन अत्समासान्तः → अ । [अनुसामम् ] अनुगतं साम = अनुसामम् । अनेन अत्समासान्तः → अ । [अनुसामः ] अनुगतं सामास्य = अनुसामः । अनेन अत्समासान्तः → अ । [अवसामम् ] अवगतं साम = अवसामम् । अनेन अत्समासान्तः → अ । [अवसामः] अवगतं सामास्य = अवसामः । अनेन अत्समासान्तः → अ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org