SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [उपडः, उपकः, उपियः, उपिकः, उपिलः, उपेन्द्रदत्तकः] अनुकम्पित उपेन्द्रदत्तः = उपडः, उपकः, उपियः, उपिकः, उपिलः । अनेन अड-अक-इय-इक-इलप्र० । 'आतो नेन्द्र-वरुणस्य' (७।४।२९) इति ज्ञापकात् अकृतसन्धिरेव। 'द्वितीयात् स्वरादूर्ध्वम्' (७३।४१) इति इन्द्रदत्तस्य लुक् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-उपेन्द्रदत्तकः । . 'अनुकम्पा-तद्युक्तनीत्योः' (७।३।३४) इत्यादिना कप्प्र० → क छ।। ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च ॥ ७।३।३७ ॥ [ऋवर्णोवर्णात् ] ऋवर्णश्च उवर्णश्च = ऋवर्णोवर्णम्, तस्मात् । [स्वरादेः] स्वरादि षष्ठी ङस् । [आदेः] आदि षष्ठी ङस् । [लुक्] लुक् प्रथमा सि । [प्रकृत्या] प्रकृति तृतीया टा। [च] च प्रथमा सि । [मातृयः, मातृकः, मातृलः] अनुकम्पितो मातृदत्तः = मातृयः, मातृकः, मातृलः । 'अजातेन॒नाम्नो बहुस्वरादियेकेलं वा' (७।३।३५) इय-इक-इलप्र० । 'द्वितीयात् स्वरादूर्ध्वम्' (७३।४१) दत्तशब्दस्य लोपः । अनेन इय- . . इक-इलानामादिलोपः । [पितृयः, पितृकः, पितृलः] अनुकम्पित: पितृदत्तः = पितृयः, पितृकः, पितृलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । 'द्वितीयात् स्वरादूर्ध्वम्' (७३।४१) दत्तशब्दस्य लोपः । अनेन इय-इक-इलानामादिलोपः । [वायुयः, वायुकः, वायुलः] अनुकम्पितो वायुदत्तः = वायुयः, वायुकः, वायुल: । 'अजाते“नाम्नो०' (७।३।३५) इय-इक-इलप्र० । 'द्वितीयात्०' (७।३।४१) दत्तशब्दस्य लोपः । अनेन इय-इक-इलानामादिलोपः । [भानुयः, भानुकः, भानुलः] अनुकम्पितो भानुदत्तः = भानुयः, भानुकः, भानुलः । 'अजातेन॒नाम्नमे०' (७।३।३५) इय-इक-इलप्र० । 'द्वितीयात्०' (७३।४१) दत्तशब्दस्य लोपः । अनेन इय-इक-इलानामादिलोपः । [देवियः, देविकः, देविलः ] अनुकम्पितो देवदत्तः = देवियः, देविकः, देविलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । 'द्वितीयात्०' (७।३।४१) दत्तशब्दस्य लोपः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [वाचियः, वाचिकः, वाचिलः] वाच्-आशिष । अनुकम्पितो वागाशीः = वाचियः, वाचिकः, वाचिलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । 'षड्व कस्वरपूर्वपदस्य स्वरे' (७।३।४०) इत्येकस्वरादूर्ध्वं लुग्भवति । [मद्रबाहुकः] मद्रौ बाहू यस्य सः = मद्रबाहुः । अनुकम्पितो मद्रबाहुः = मद्रबाहुकः । 'अनुकम्पा०' (७।३।३४) कप्प्र० → क ॥छ। लुक्युत्तरपदस्य कपन् ॥ ७।३।३८ ॥ [लुकि ] लुक् सप्तमी ङि । [ उत्तरपदस्य] उत्तरं च तत् पदं च = उत्तरपदम्, तस्य । [कपन्] कप्न् प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy