SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता सर्वा दिशो दधति भानि सहस्ररश्मिं, _ प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस मादित्य-वर्ण-ममलं तमसः परस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥ त्वामव्ययं विभु-मचिन्त्य-मसङ्ख्य-माद्यं, ब्रह्माणमीश्वर-मनन्त-मनङ्गकेतुम् योगीश्वरं विदितयोग-मनेक-मेकं, ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्वं शङ्करोऽसि भुवन-त्रय-शङ्करत्वात् धाताऽसि धीर! शिवमार्ग-विधे-विधानात्, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ तुभ्यं नम-स्त्रिभुवनाऽऽर्तिहराय नाथ!, तुभ्यं नमः क्षिति-तलाऽमल-भूषणाय तुभ्यं नम-स्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय को विस्मयोऽत्र यदि नाम-गुणैरशेषैः, त्वं संश्रितो निरवकाशतया मुनीश! दोषै-रुपात्त-विविधाश्रय-जातगर्वैः, स्वप्नान्तरेऽपि न कदाचिद-पीक्षितोऽसि ॥२७॥ उच्चैरशोक-तरु-संश्रित-मुन्मयूख माभाति रूप-ममलं भवतो नितान्तम् स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं, बिम्बं रवेरिव पयोधर-पार्श्ववर्ति ॥२८॥ UMER O "सिद्धाचल गिरि नसो नगः - विमलाचल गिरि नमो नमः" 74 wwwjamindia
SR No.004225
Book TitleChari Palak Padyatra Sangh
Original Sutra AuthorN/A
AuthorRajhans Group of Industries
PublisherRajhans Group of Industries
Publication Year
Total Pages140
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy