SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि र्नीतं मनागपि मनो न विकार-मार्गम् कल्पान्त-काल-मरुता चलिताचलेन, किं मन्दराद्रि-शिखरं चलितं कदाचित् ? ॥१५॥ निधूमवर्ति-रपवर्जित-तैलपूरः, ____ कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि गम्यो न जातु मरुतां चलिता-चलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ - नास्तं कदाचि-दुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्-जगन्ति नाम्भोधरो-दर-निरुद्ध-महा-प्रभावः, सूर्यातिशायि-महिमाऽसि मुनीन्द्र! लोके ॥१७॥ नित्योदयं दलित-मोह-महान्धकारं, गम्यं न राहु-वदनस्य न वारिदानाम् विभ्राजते तव मुखाब्ज-मनल्प-कान्ति, विद्योतयज्-जगद-पूर्व-शशाङ्क-बिम्बम् ॥१८॥ किं शर्वरीषु शशिना-ऽह्नि विवस्वता वा, __ युष्मन्-मुखेन्दु-दलितेषु तमस्सु नाथ ! निष्पन्न-शालि-वन-शालिनि जीव-लोके, कार्य कियज्-जलधरै-र्जलभार-नमै ॥१९॥ ज्ञानं यथा त्वयि विभाति कृताऽवकाशं, नैवं तथा हरिहरादिषु नायकेषु तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काच-शकले किरणाऽऽ कुलेऽपि ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥ ducation सिद्धाचल गिरि नमो नमः - विमलाचल गिरि नमो नमः 73 www.jainelibrary.org
SR No.004225
Book TitleChari Palak Padyatra Sangh
Original Sutra AuthorN/A
AuthorRajhans Group of Industries
PublisherRajhans Group of Industries
Publication Year
Total Pages140
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy