________________
विभाग-४, लघुवृत्तिः
२२३
स्वच्छन्दचारी सातलोलुपः साधु-साध्वी श्रावक-श्राविकासमवायो भूयानिह सङ्घ उच्यते, स एव बलिष्ठत्वात् क्रूरत्वाच्च 'व्याघ्र: ' शार्दूलस्तद्वशस्य तदधीनस्य- दासवत्-यत्र तत्र नियोज्यस्येति यावत् । द्वितीयपक्षे ग्रासविषयीभूतस्य 'मोक्ष' इति श्लिष्टपदं, तेन जन्तुपक्षे 'मोक्षो' निर्वाणं, हरिणपक्षे च छुटनं व्याघ्रात्पलायनमिति यावत् । 'कुतः ' कः स्यात् ? न कथञ्चिदित्यर्थः । ननु मुक्त्यनुगुणानुष्ठानाभावात्तस्य मोक्षाभावः, किमायातम् ? सङ्घस्येत्यत आह-'मुक्त्यै' निःश्रेयसार्थं 'कल्पितदानशीलतपसोऽपि स्वबुद्ध्याविहितजिनादिवितरणदेशचारित्रानशनादेरप्यास्तां तदितरस्येत्यपि शब्दार्थः । कथं तर्हि मोक्षाभाव ? इत्यत आह'सङ्घाय' लिङ्गिसमुदायाय 'देयानि ' कृतानि । देये त्रा चेति त्रा तद्धितः । ततश्च 'सङ्घत्राकृतानि' श्रावकलोकेन भक्त्या स्वद्रविणेन निर्माप्य लिङ्गिभ्यः तत्-देशनयैव वासाद्यर्थं समर्पणेन तदायत्तीकृतानि ‘चैत्यानि' जिनायतनानि, तान्येव 'कूटा' हरिणबन्धनयन्त्रविशेषाः । अथ कूटश्च बन्धहेतुरभिधीयते, मोचनहेतु-बन्धनहेत्वोर्महद्वैषम्यं, तथा च सिद्धान्तविधिना लिङ्गिनां निश्रानिवासविरहेण श्राद्धैर्यानि चैत्यानि विधाप्यन्ते तानि संसारगुप्तिमोचननिबन्धनानि भवन्ति, एतानि प्रकृतचैत्यानि मुग्धान् प्रोत्साह्य स्वनिवासाद्यर्थं कथम् - आजन्मामी श्राद्धा अस्माकं भोग्या भविष्यन्तीत्याशयेन तेषां तत्र ममकारोत्पादनेन नियमनाद्यर्थं लिङ्गिभिः कारितानि, तत्कथमेतेषां मोचनहेतुत्वं ? प्रत्युत बन्धननिबन्धनत्वमेव । एवं चैत्यानां कूटैरत्यन्तं बन्धहेतुसाम्येनाभेदविवक्षणाद्युक्त उपमानोपमेयभाव इति । सङ्घत्राकृतचैत्यकूटेषु 'पतितस्य' . प्रतिबद्धस्य कथञ्चित् सत्पथं प्रतिपत्सोरपि तत्र गोष्ठिकत्वादिना स्वकारितप्रतिमाममत्वादिना वा नियमितत्वात् ततो निर्गन्तुमशक्तस्येति यावत् । द्वितीयपक्षे 'पतितस्य' बद्धस्य । तथा ‘अन्तस्तरां ताम्यतः' सन्मार्गबहुमानित्वात्ततो निर्जिगमिषोरपि निर्गमालाभात् भविता कदाचित्तद्दिनं यत्रैतस्मात् असत्पथादहं निर्गमिष्यामि इत्येवंतरामतिशयेनान्तःकरणमध्ये 'ताम्यतः' खिद्यमानस्य, कुत ? इत्यत आह- तच्छब्देन सङ्घः परामृश्यते, तस्य - सङ्घस्य 'मुद्रा' चतुर्दश्यादिकाः पर्वतिथयः, एतदाचार्यसंवादेन तपोनियमादिकृते प्रमाणीकर्त्तव्या, नान्यथेत्यवमादिका व्यवस्था, ततः क्षुद्रैर्मुद्रा प्रवर्त्तिता, वराकान् मुग्धसारङ्गान् हा ! बद्धुं वागुरा इव । ततश्च तन्मुद्रैव ‘दृढं' निबिडं 'पाशो' मृगादिबन्धनार्थं दवरकादिनिर्मितग्रन्थिविशेषः तेन 'बन्धनं' संयमनं, तद्वत-स्तदन्वितस्य । स हि सङ्घमुद्रामुद्रितः ततो निर्गमनवार्तामपि कस्यापि पुरतो वक्तुं न शक्नोति, किम्पुनर्निर्गन्तुमित्यर्थः । तथा एतस्य सङ्घस्य क्रम- स्तन्निर्दिष्टा रात्रिस्नात्रादिका परिपाटी, तत्स्थायिन स्तद्वर्तिनः । द्वितयपक्षे तु हरिणप्रहारार्थमुत्क्षिप्य सज्जितः पादः क्रमस्तद्गोचरगतस्येति । ततोऽयमर्थः यथा व्याघ्रग्रासविषयस्य तत् क्रमगोचरस्य, तत्रापि कूटपतितस्य, अन्यथा हि पलाय्यापि कथञ्चित्ततो मोक्षः सम्भवति । 'तत्रापि निर्जिगमिषया चेतसि ताम्यति पाशसंयमितत्वेनाङ्गस्पन्दनमात्रमपि कर्त्तुमशक्तस्य हरिणजातस्य स कथञ्चित्ततो मोक्षः सम्भवति, एवमस्यापि चैत्यप्रतिबद्धस्य सन्मार्गस्पृहया
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org