________________
श्री सङ्घपट्टकः
२१८
साम्प्रतं मुग्धजनान् प्रति स्वमतं मोक्षपथतया दिशतः सत्पथगामिनश्च धार्मिकान् स्ववचनाऽननुरोधित्वेनाज्ञतया अवजानानस्य कस्यचिद्यथाछन्दाचार्यग्रामण्योऽप्रस्तुतप्रशंसया स्वरूपमाह
कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः ॥२९॥ व्याख्या 'कष्टं' दुःखमेतत् नः चेतसि वर्त्तते, यत् किमित्याह, यदिति वाक्योपक्षेपे, यन्नृणामदृशां जात्यन्धवैदेशिकः कान्तारेऽभीप्सितपुराध्वानं प्रदिशतीति सम्बन्धः । तत्र 'नृणां' पुंसां 'नष्टदृशां' अलोचनत्वात्कान्तारपातेन दिङ्मूढत्वाच्च प्रभ्रष्टप्राचीप्रतीच्यादिककुविभागपरिच्छेदानाम् 'अदृशां' काचकामलादिना दृग्विकलानां, न तु जन्मान्धानां, जन्मान्धोजन्मभिव्याप्त्या लोचनरहितः । न तु सोऽपि तद्देशजात इतरेभ्यः श्रवणादिना विज्ञाय कथञ्चिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं 'वैदेशिक' इति । विदेशे-योजनव्यवहिते देशान्तरे जातो वद्धितश्चेति वैदेशिकः । स हि तद्देशस्वरूपमात्रस्याप्यनभिज्ञत्वात्कथं प्रकृतमार्ग जानीयादपि, ततः कर्मधारयः । 'कान्तारे' जनसञ्चारशून्ये दुर्गवर्त्मनि 'प्रदिशति' प्रतिपादयति । 'अभीप्सितपुरध्वानं' जिगमिषितः नगरमार्ग, किलेति वार्तायाम् । 'उत्कन्धरः' उद्ग्रीवः कन्धारमुन्नमय्य भुजदण्डमुत्क्षिप्य कथयतीति कष्टमेतत् । तुः पुनरर्थे । 'इदं वक्ष्यमाणं पुनः 'कष्टतरं' पूर्वस्मादपि कष्टान्महत्कष्टं । यत् किमित्याह-'सोऽपि' प्रागुक्तो मार्गदेष्टा 'सुदृशो' निर्मलनयनानत एव 'सन्मार्गगान्' इष्टनगरसुगमपथप्रस्थितान् ‘तद्विदः' सम्यक् सन्मार्गज्ञान् यत् हसति, सावज्ञमिति क्रियाविशेषणं-सावहेलम् 'अज्ञानिव' मार्गानभिज्ञानिव । यथा मार्गानभिज्ञा मार्गमुपदिशन्त उपहस्यन्ते लोकेन, तथैतेऽपि तेन । एवं प्रस्तुतमुपमानं योजयित्वा प्रस्तुतमुपमेयमिदानी योज्यते-कष्टमेतत् यन्नृणां-सत्पथेच्छुपुरुषाणां 'नष्टदृशाम्' अतिमुग्धतया सत्पथकुपथविभागानभिज्ञानात् अदृशां-सम्यग्ज्ञानदर्शनविकलानां 'जात्यन्धः' सिद्धान्तरहस्यलेशानभिज्ञः सर्वथा अगीतार्थः । सोऽपि गीतार्थसंवासादेः कथञ्चित् मोक्षपथकथनप्रवीणः स्यात्-तत्राह-'वैदेशिको' गर्हिताचारत्वाद् गीतार्थमुनिपुङ्गवसङ्गमात्रवर्जितः । एष चाधुनिकदुःसङ्घप्रवरो निश्शङ्कं निःश्रेयसपथप्रत्यर्थिमार्गकथनदीक्षितो यथाछन्दशिरोमणिः कश्चिदाचार्यो मन्तव्यः । 'कान्तारे' भवमहाटव्यां 'प्रदिशति' अभीप्सितपुराध्वानं-मुक्तिमार्गम् 'उत्कन्धरो' दर्शिताहङ्कारविकारः । तथा च सोऽगीतार्थ उत्सूत्रभाषको मिथ्यादृष्टिः कथञ्चिदपि 'सत्पथ' मोक्षमार्गं न वेत्ति, नाप्यन्येन गीतार्थेन प्रतिपादितोऽपि प्रत्येति, इति कष्टम्, एतत्कष्टतरं 'तु' इति पूर्ववत् । सोऽपि प्रागभिहितो यथाछन्दाचार्यः 'सदृशः' सम्यग्ज्ञानदर्शनयुजः 'सन्मार्गगान्' ज्ञानदर्शनचारित्रलक्षणमुक्तिपथप्रवृत्तान् ‘तद्विदो' मुक्तिमार्गाभिज्ञान् धार्मिकान् सुविहितसाधून् यद्धसति सावज्ञमज्ञानिव, यथा-किममी अगीतार्था मूर्खशिरोमणयः सिद्धान्तरहस्यं जानन्ति ?, अहमेव सकलश्रुतपारावारपारदृश्वा, ततो यमहं ब्रवीमि स मुक्तिमार्ग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org