________________
जैनन्यायपञ्चाशती
63 रूपं मौलिरूपे परिवर्तितम्। घटरूपं च विनष्टम्। अनयोर्द्वयोरवस्थयोः सुवर्ण तु तथैव स्थिरं तिष्ठति। इदमेव वस्तुस्वरूपं सतो लक्षणम्।
एतेनेदमपि स्पष्टं भवति यद् जैनदर्शनं प्रत्येकं वस्तुनि अंशद्वयं स्वीकरोति-एकस्तु पर्यायांशो द्वितीयो द्रव्यांशः। तत्रोत्पादविनाशौ तु पर्यायांशे एव भवतो द्रव्यांशस्तु तत्र धौव्यरूपेण तिष्ठति। अत एव द्रव्यपर्यायात्मकं वस्तु इति वस्तुनो लक्षणे द्रव्यपर्याययोरस्तित्वं स्वीकृतमस्ति। तत्र पर्यायांशे उत्पत्तिव्यययोः सत्ता तिष्ठति। द्रव्यांशस्तु धौव्य एव। अनेन प्रकारेण उत्पादव्ययधौव्यं सदिति सतो लक्षणं युक्तमेव।
__ अनेन ज्ञायते यत् एकस्मिन्नेव समये उत्पादव्ययधौव्याणि एतानि त्रीणि तथ्यानि सहैव तिष्ठेयुस्तदेव सत्स्वरूपं इति निश्चितम्। इदमेव तथ्यमुक्तञ्च आचार्यहेमचन्द्रेणापिदृढ़ीकृतम् प्रतिक्षणोत्पादविनाशयोगि, स्थिरैकमध्यक्षमपीक्षमाणः'। वस्तुनि उत्पादव्ययाभ्यां वस्तुनः परिवर्तनशीलता तथा धौव्यत्वेन च तस्य नित्यता व्यक्ता भवति। न च परस्परं विरोधिनामेषां त्रयाणां धर्माणामेकत्रावस्थानमसंभवमिति वाच्यम्? यदि एषां परस्परविरोधिनामेकत्र समावेशो न स्यात् तदा सतो लक्षणमेव नैव सिद्धयेत्। अतः अनुभवपथारूढस्यं सतो लक्षणस्योपपत्तये एषां त्रयाणामेकत्रावस्थानं स्वीकरणीयमेव। यथा-दुग्धाद् दधि निर्मीयते तदा तत्र दुग्धस्य शनैः शनैः व्ययो दध्नश्चोत्पादो भवति। अत्रोभयोर्गोरसस्तु तिष्ठत्येव।
एवं प्रकारेण अत्र सतो लक्षणं प्रतिपाद्य सम्प्रति उदाहरणद्वयेन वस्तुनस्त्रयात्मकत्वं साधयति। प्रथमोदाहरणं धुंधुनी स्वगंगा दत्ता वर्तते। सा च निरन्तरं प्रवहति। तस्मिन् प्रवाहे प्रतिक्षणं परिवर्तनं जायते। तत्र जलं सततं गतिमदस्ति। यावज्जलमग्ने गच्छति तावज्जलं पश्चादागतेन जलेन पूर्यते। अनया रीत्या एकस्मिन्नेव प्रवाहे उत्पादव्ययौ सहैव दृश्येते। गंगा तु धौव्यरूपेण तत्र स्थितैव। अनेन उदाहरणेन उत्पादव्ययौ ध्रुवत्वं चेति तिस्रः स्थितयः यथा गंगायां भवन्ति तथैव प्रत्येकं वस्तूनि जायन्ते इमाः स्थितयः। अत्र गंगा
१. स्याद्वादमंजरी, श्लो. २१। . .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org