________________
57
जैनन्यायपञ्चाशती किन्तु आहार्या तु अल्पकालिकी।अग्नौ दाहिका शक्तिः सार्वकालिकी, किन्तु जले आहार्या दाहिका शक्तिस्तु अल्पकालिकी एव।सहजा शक्तिः स्वरूपसती कार्यकर्वी नतुज्ञातृसती कार्यकर्ती।अग्नेर्दाहिकांशक्तिं जानीयात्न वा जानीयात् सा तु ज्वलयत्येव।
ज्ञाने या अर्थप्रकाशिका शक्तिः सा तु स्वरूपसती अर्थप्रकाशिका वर्तते।ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्त्या ज्ञानं प्रकाशात्मकमेव।तच्च स्वविलक्षणाचिन्त्यशक्त्या यथा समीपस्थं पदार्थ प्रकाशयति तथैव दूरतरमपि पदार्थ प्रकाशयत्येव।
इदमत्र बोध्यं यत् यथा जैनन्याये ज्ञानमात्मगुणस्तथैव न्यायदर्शनेऽपि ज्ञानमात्मनो गुण इति स्वीकृतमस्ति। यथा-'ज्ञानाधिकरणमात्मा'' इत्युक्त्या आत्मनो ज्ञानाधिकरणत्वं व्यक्तं भवति, एतावत् साम्येऽपि उभयोः दृश्यते कश्चन भेदोऽपि। यथा कस्यचिद् वस्तुनो ज्ञानार्थं सर्वप्रथमम् आत्ममनसोः संयोगः, मनसश्च इन्द्रियेण संयोगः इन्द्रियस्यार्थेन सह संयोगस्ततो घटोऽयमित्यादिरूपेण ज्ञानं भवति।ज्ञानञ्चेदं व्यवसायपदेनोच्यते।अस्य व्यवसायस्य ग्रहणं ज्ञातो मया घटः इत्यनुव्यवसायेन भवति।अयमत्र प्रत्यक्षस्य प्रमाणस्य क्रमः। जैनन्यायेतु इन्द्रियमनोनिमित्तकं ज्ञानमिदं परोक्षप्रमाणरूपेण स्वीकृतमस्ति।
अस्मिन् विषये क्षणिकवादिबौद्धाः इत्थं वदन्ति यत् ज्ञानं विषयात् जन्यते । अस्यायं भावः-विषयात् जातं ज्ञानं विषयाकारतामुपैति । विषयाकारमुपेतमेव ज्ञानं विषयं प्रकाशयति। यज्ज्ञानं विषयाकारतां नोपैति तद् वस्तुप्रकाशकमपि न भवति। एतन्मतं कारिकाकारेण निराकृतम्। एतन्मतानुसारं ज्ञानं अर्थे न प्रविशति न वा अर्थोऽपि ज्ञाने प्रविशति।ज्ञानमर्थाकारं न भवति। ज्ञानं अर्थात् नोत्पद्यते। ज्ञानं वस्तुरूपमपि नास्ति। तात्पर्यमिदं यत् ज्ञानार्थयोः न पूर्णोऽभेदः। प्रमाता ज्ञानस्वभावो भवति। अतः स विषयी भवति। अर्थश्च
१. अर्थेन ज्ञानं जन्यते। तच्च ज्ञानं तमेव
स्वोत्पादकमर्थं गृह्णातीति। -स्याद्वादमञ्जरी, श्लोक. १६, पृ. १५२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org