SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ शुभाशंसा शास्त्रजगति न्यायशास्त्रस्यापि महत्त्वपूर्ण स्थानं वरिवर्ति। विषयमेनमधिकृत्य बहवो ग्रन्था विद्वद्वरेण्यैर्लिखिताः सन्ति। तान् ग्रन्थान् पाठं पाठं विद्यार्थी न्यायशास्त्रवेत्ता भवितुमर्हति । जैनदर्शने न्यायमधिकृत्य नैके ग्रन्थाः प्रणीता विचक्षणवर्यैः। विपश्चिदपश्चिमैः परमपूज्यैराचार्यमहाप्रज्ञवर्यैरस्तोकाः ग्रन्था व्यरचिषत। तेषु : एको लघुकायः ग्रन्थः 'जैनन्यायपञ्चाशती' विलसति। लघावस्मिन् ग्रन्थे आहेतन्यायशास्त्रस्य शोभनं चित्रणं चकास्ति। ___पंडितवर्येण विश्वनाथमिश्रमहोदयेन अस्योपरि 'न्यायप्रकाशिकानाम्नी' .. व्याख्याव्यलेखि। दृष्टिगोचरीभवति प्रकाण्डं पाण्डित्यं मिश्रमहाशये। अस्मिन् कार्ये तेरापंथधर्मसंघस्य लब्धवर्णस्य शासनश्रीमुनिराजेन्द्रकुमारमहाभागस्यापि श्रमशीकराः संलग्नाः सन्ति। गीर्वाणवाण्यां विरचितस्यास्य ग्रन्थस्य व्याख्यायाश्च हिन्दीभाषारूपान्तरणमपि विहितमस्ति । अनेन स्वल्पसंस्कृतज्ञानां कृतेऽपि असंस्कृतज्ञानां चापि कृते पुस्तकमिदं पठनीयतामवाप्स्यति। आशासेऽहं न्यायविद्यार्थिनां कृते ग्रन्थोऽयमुपयोगितामश्नुयात्। आचार्यः महाश्रमणः कृष्णाबालभारतीशिक्षणसंस्थानम्, रताऊग्रामः २३/२/११, बुधवासरम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004165
Book TitleJain Nyaya Panchashati
Original Sutra AuthorN/A
AuthorVishwanath Mishra, Rajendramuni
PublisherJain Vishva Bharati
Publication Year2012
Total Pages130
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy