________________
जैनन्यायपञ्चाशती न्यायप्रकाशिका
प्रतिबिम्बेति नाम्ना ख्याता छाया एकमपरिहार्यं तत्त्वम् । इयं बिम्बानुसारिणी भवति । दार्शनिक जगति ख्यातेषु द्रव्यादि पदार्थेषु छाया किमात्मिकेति प्रश्ने उत्तरयति आचार्यों यत् छाया द्रव्यमस्ति, क्रियावत्वात् । तात्पर्यामिदं यत् छायायां क्रिया अस्ति तस्मात् क्रियाश्रयत्वात् छाया द्रव्यमस्ति किन्तु केवलं क्रियाश्रयत्वमेव न द्रव्यत्व साधकं किन्तु क्रियया सह तत्र गुणस्यापि स्थितिरपि अपेक्षिता भवति । छाया कृष्णवर्णेति लोकप्रसिद्धम् । अनेन प्रकारेण कृष्ण-वर्णरूपगुणाश्रयत्वात् गममचलनादिक्रियाश्रयत्वाच्च छाया द्रव्यमिति सुस्थिरम् ।
107
गमनकर्त्रा सह गच्छन्तीं छायां दृष्टवा कथ्यते लोके छाया गच्छति यातीति वा । अनेन प्रकारेण प्रत्यक्ष प्रमाणदेव यद्यपि छायाया द्रव्यत्वं सिद्ध्यति तथापि कतिपयैर्विद्वद्भिरनुमानेनापि साधयन्ति छायाया द्रव्यत्वम् । तच्चेत्थम् छाया द्रव्यम्-क्रियावत्वात् । अयं तु द्रव्यत्वक्रियावत्वयोः अन्वय-व्याप्तिः व्यतिरेक व्यातिश्च सुलभा । यथा - "यत्र यत्र क्रियावत्वं तत्र तत्र द्रव्यत्वम् इत्यन्वयव्याप्तिः । यत्र यत्र द्रव्यत्वाभावस्तत्र तत्र क्रियावत्वाभावः " इति व्यतिरेक व्याप्तिरपि भवति अनुमिति प्रयोजिका ।
अत्र केचन वदन्ति यद् छायायां यत् क्रियावत्वं प्रतीयते तत् सर्वं भ्रमात्मकमेव न तु वास्तविकम् किन्तु कथनमिदं न युक्तम् । कारणञ्चास्येदमेव यत् तत्र या गमन प्रतीतिर्भवति सा ज्ञानजन्या अर्थात् प्रत्यक्ष ज्ञानजन्यावर्तते । तस्मादत्र भ्रमस्तु असंगत एव ।
अत्रेदमालोचनीयं वर्तते यद् ज्ञानजन्यं यत् किमपि भवति तत् सर्वं यदि प्रमैव तर्हि शुक्तौ रजतस्य रज्जौ वा सर्पस्य ज्ञानं प्रमा कथं न स्यात् ? अत्रोच्यतेरज्जौ सर्पस्थलात् भिन्नम् अत्रत्यं स्थलम् । अत्र तु अधिष्ठानं रज्जुरस्ति अधिष्ठेयश्च सर्पः। पश्चाज्जाते तथ्यसाक्षात्कारे नायं सर्पः इत्येवं रूपेण पूर्वज्ञानस्य बाधनं भवति अत्र तु रज्जुवत् भ्रमाधिष्ठानं किमपि नास्ति । अत्र तु केवलं गमनक्रियाकर्तृत्वं छायायामेव वर्तते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org