________________
परिशिष्ट - 'क' • २५७
२१. श्रीनमिनाथस्तवः ॥ नमिदेवं गुणाकारं, सन्नताऽमरमण्डलम् । विनमामि रसाधारं, भवसागरतारणम् ॥१॥ विमलं कमलाकेलिमन्दिरं वसुसुन्दरम् । वन्देऽहं सादरं देव ! पदतामरसं तव ॥२॥ भूरिमायारसासीर ! हेमकाय ! तमोहर ! । महामोहमहानागकण्ठीरव ! चिरं जय ॥३॥ नीराग ! निरहङ्कार ! निरपाय ! निरामय ! । कामं समीहितं देहि, देव ! मे जनताहित ! ॥४॥ दम-दान-दयासारतारमागमसाङ्गरम् । सेवे गममणीवारदं कुलं विपुलं तव ॥५॥
२२. श्रीपार्श्वनाथस्तवः ॥ पाइँन ! नाऽवि कं, यक्षपाइँन नत ! विघ्नतः । पाइँन भीवने रम्यपाइँन भास्त्वया जगत् ॥१॥ वामेय ! शिवपूर्मार्गे वामेयस्त्वयि सन्नतः । वामेयतं नरं सद्योऽवामेयगुणविघ्नतः ॥२॥ भावतस्त्ववयो ज्ञानभावतत्वरतक्रमौ । भावतः स्तौति तं रक्षा भावतस्तापतः क्षणात् ॥३॥ कान्तारङ्गोदहो मोहकान्तारं न प्रजामपाः । कान्तारङ्कस्य चारित्रकान्तारं नाकृथाः प्रियम् ॥४॥ महानन्दप्रदो भानुर्महानन्द तवाश्रिते । महानन्दरमाभूरि, महानन्दसुरागिताम् ।।५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org