________________
१९२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
महानयस्थान सृजन्तु पुंसां, महानयस्तस्य तवेश वाचः । महानयः शार्ङ्गिवधूभिरिद्ध, महानयः क्षोभमलोभनीतः ||३०|| वन्दे जिनं सर्वकलापदन्तं, सदा मुदा कुन्दकलापदन्तम् । कुर्वन्तमुच्चैः सकलाऽऽपदन्तं, गुणावली यस्य कलापदन्तम् ॥३१॥ यस्त्वां श्रीजिन ! शीर्ण---तमसं भूशोकनाशेश्वरं, सद्वाचं विमलस्तुतेऽमितमुदानङ्गप्रभाखण्डनम् । यत्नाद्रम्यदयं शिवासुतमिति प्राणिप्रियं रक्षतं, तन्द्रापायनिरासका भयभवारम्भादनं तद्द्भुतम् ॥३२|| [शार्दूलविक्रीडितम्]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org