________________
१९०. श्रीनेमिनाथस्तोत्रसङ्ग्रहः समानमदमत्र्येशा !, समानमलते गुणान् । समानमदनाब्जेन्दु-समानमनसा श्रये ॥८॥ कमला मनतास्त्रैन्द्री, कमलामलदीधिती । कमलामतिदौ ! शङ्खा, कमलामय हृद्वयम् ।।९।। . परमायद ! क्लृप्ताघ !, परमायमिनः पदम् । ... परमायन् हतोपास्ति, परमाय ! नतास्त्वयि ॥१०॥ क्षमापदसदा पावि, क्षमापद सरोरुहैः । क्षमापद सनेतेस्रा, क्षमापद समान्तिकम् ॥११॥ विभावरीशास्य भवत्यतुल्य, विभावरीनस्यति यस्य भक्तिः । विभावरीयोऽगतमङ्गजद्री, विभावरीरीवसुनिर्विशेष ॥१२॥ [उपेन्द्रवज्रा] स त्वं जयोक्त व्रतभावनाग, धीरप्रबुद्धाखिलभावनाग । मोहद्रूमे यस्य विभावनाग, पत्रालिसान्द्राहि बभाव नागः ॥१३॥ [उप०] महोदयासक्तसुरेन्द्रपृष्ट ! महोदयायेश ! ममैधि बोधः । महोदया धामविशुद्धकर्म, महोदयामोसिथ देहिनां यः ॥१४॥ सुपर्वसार्थोऽयमशंसदार-विदारणव्यग्र ! भृशं सदारः । तं कामशैले कुलिशं सदार-मञ्चन्नकस्त्वां शिवशंसदार ॥१५।। विभो ! गदामि स्तवनं तवाब्द-विभो ! गदागम्य शरीरयोभूः । विभोगदामोदरविक्रमाद्रा, विभो ! गदाद्यायुधसङ्गहीन ! ॥१६|| संसारवासाय तमोहसेन ! संसेव्य संवित् परमोहसेन । निस्सीमभास्वन्महिमोहसेन, हीनो जिन ! त्वं हतमोहसेन ॥१७॥ कारोपमत्तस्मरभीः कृताङ्गि-कारोपमर्त्यामरसेव्य तेषाम् । कारोपमः कश्चभवः शुभोपकारोपमन्युस्त्वमुपासितो यैः ॥१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org