________________
पदान्तमालायमकमयम् नेमिनाथस्तोत्रम् • १८१ तततामसराशिविनाशकरं, करणाह्वतुरङ्गवशीकरणम् । रणरम्यतयानुकृताम्बुधरं, धरणीधरवन्दितपुण्यपदम् ॥५॥ पदपद्मविभूषितमार्गभुवं, भुवनाय॑चरित्रपवित्रतमम् । तमदम्भतयाहृदि नेमिजिनं, जिनदत्तमये द्रियतामनघं ॥६।। षड्भिः कुलकम् ।। न घनाघनकज्जलकालरुचिं, रुचिरां तनुमीश्वर ! किं वहसि । हसितद्युतिसुन्दरवक्त्रजनं, जनयन्दृढमर्जितधर्मकलम् ॥७॥ कलयन् भुवनाद्भूतभाग्यभरं, भरतार्द्धजनेषु मुदं जनयन् । नयनैजितपङ्कजपत्र ! महन्, महनीयमुमुक्षुमहेन्द्र जय ॥८॥ इति कवीश्वरवाग्विषयीभवन्, भुवनमद्भुतभाग्यभरश्रियः । यदुकुलाभ्रनभोमणिमण्डली, जयतु नेमिजगत्रयनायकः ॥९॥ [द्रुतविलम्बितम् ]
३. रणः - ध्वनिः । ४. प्रतौ तु इदं - 'जिनदत्तमुएदंविनवीनघम्' ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org