________________
३०) नेमिनाथस्तवनम्
અજ્ઞાતકર્તૃક પાંચ પદ્યમય આ સ્તવન પણ સરળ ભાષામાં રચાયેલું છે. એક-એક પદના વિશેષણ વાપરવાની પ્રથા રાખેલી છે. ચતુર્થ પદ્યની ‘મર્દનશત્રુના પુરુષપત્રના પરાભવને કારણે વિશદશીલનું બન્નર પ્રભુએ ધારણ કર્યું છે.’ આ ઉત્પ્રેક્ષા વિચારણીય લાગે છે.
निजगुरुक्रमपङ्कजयामलं समुपनम्य लसद्गुणसागरम् । पतनुसंसृतिजन्तुनतं सदा, परमनेमिजिनं प्रकवे मुदा ||१|| [द्रुत०] नवघनाघनभूघनदीधितिं, किल फलादनसन्निभशिङ्घिनिम् । विकसिताम्बुरुहाम्बकयामलं, नमतनेमिजिनं सुखमन्दिरम् ॥२॥ पटुपराक्रमभासुरतेजसं,,भुजमनामयदाशु वृषाकपेः ।
कमलनालमिवोद्धृतसंसृति - क्षितिरुहोस्तु स नेमिजिनः श्रिये || ३ || विशदशीलतनुत्रमलं तनौ, परिदधौ मदनाभिधवैरिणः । परुषपत्रिपराभवसाध्वसादिव स नेमिजिनः शिवशं क्रियात् ॥४॥ इति हि मयकाऽनावि स्वामी जगत्त्रितयस्य यः, शुचिकुमुदिनीनाथप्रख्याननः समतानिधिः ।
क्षितिपतियदुश्रेयोवंशाम्बुजन्मविवर्धने,
दिनमणिसमः शैवेयोऽसौ जिनः शुभदायकः ॥ ५ ॥ [ हरिणी]
Jain Education International
***
For Personal & Private Use Only
www.jainelibrary.org