________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
--------------- मूलं [१९]/गाथा ||१२१...|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ), प्रकीर्णकसूत्र-[9] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
॥४८॥
[१९
||१२१.॥
तं. वै.प्र.14वत् ५२ 'रित्तमुट्ठी' रिक्कमुष्टिवत्-पोलकमुष्टिवत् बाललोभनीयाः-अव्यक्तजनभोलनयोग्याः वल्कलचीरितापसवत् ५३ 'मंस' मांसपेसीग्रहणमिव सोपद्रवाः, यथा केनापि सामान्यपक्षिणा कुतश्चित्स्थानात् मांसपेसी प्राप्ता तस्यान्य-
II दुष्टपक्षिकृताः अनेके शरीरपीडाकारिण उपद्रवा भवन्ति तथा रामाग्रहणेऽनेके इहभवे परभवे च दारुणा उपद्रवा| जायन्ते, यद्वा यथा मत्स्यानां मांसपेसीग्रहणं सोपद्रवं तथा नराणामपि स्त्रीग्रहणमित्यर्थः ५४ 'जलि.' अमुश्चन्तीअत्यज्यमाना 'जलियचुडिलीविव' प्रदीप्ततृणपूलिकेव 'दहनसीला' ज्वालनस्वभावा ५५ 'अरि०' अरिष्ठमिव निबिडपापमिव दुर्लकनीयाः ५६ कूड' कूटकार्षापण इव असत्यनाणकविशेष इव कालविसंवादनशीला:-कालविघटनस्वभावाः अकालचारिण्य इत्यर्थः ५७ 'चंड' चण्डशील इव-तीवकोपीव दुःखरक्षिताः ५८ 'अतिविसात्ति अतिविषादाः दारुणविषादहेतुत्वात् , यद्वा 'अतीति अतिक्रान्तो गतोऽकार्यकरणे विषादः-खेदो यासां तास्तथा, यद्वा अतीति-भृशं विषं अतिविष अतिविष आ-समन्तात् ददति पुरुषाणां सूरीकान्तावत् यास्ताः अतिविषादा, यद्धा अतीति भृशं वीति नानाविधः स्वादो-विषयलाम्पव्यं यासां ता अतिविस्वादाः, अथवा अतिविषयात्-प्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठी नरकभूमि यावत् सुसढमातृवत् गच्छन्ति यास्ता अतिविषयगाः, प्राकृतत्वाद्यकारलोपे सन्धिः, यद्वा स्वेन्द्रियविषयाप्राप्ती अतिविषादः-तीव्रखेदो यासां ताः अतिविषादाः, यद्वा अतिकोपात् अतिविर्षतीव्रविषमदन्ति-भक्षयन्तीति अतिविषादा इति, यद्वा अतिवृष-तीनं पुण्यं येषां ते अतिवृषा-मुनयस्तेषामा-समन्तात् वसत्यन्तो बहिश्च 'कायते' यमायते यम इवाचरति चारित्रमाणकर्षणत्वेन यास्ता अतिवृषाकार, यद्वा-'कायंति' अग्न
256456456456254456-1569ॐ
*
*
दीप अनुक्रम [१४३]
*
rill॥४८॥
*
*
~ 98~