________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
---------- मूलं [१६]/गाथा ||५४...|| ------- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-८], प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
[१६]
||५४..||
दीनि, शिरसि-उत्तमाङ्ग स्नातः-कृतस्नानः, पूर्व देशस्नानमुक्तमिह तु सर्वस्नानमिति न पौनरुत्यं, कण्ठे-ग्रीवायां 'माल-|| कडे'त्ति कृता माला-पुष्पमाला येन स कृतमालः प्राकृतत्वात् 'मालकडेत्ति, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, तत्र 'मणि'त्ति मणिमयानि भूषणानि एवं सुवर्णमयानीति, अहतं-मलमूषकादिभिरनुपहृतं प्रत्यग्रमित्यर्थः सुमहाय॑ बहुमूल्यं वस्त्रं परिहितं येन स तथा, चन्दनेन-श्रीखण्डेनोत्कीर्ण-चर्चितं गात्रं-शरीरं येन स तथा,
सरसेन-रसयुक्तेन सुरभिगन्धेन-सुप्ठ गन्धयुक्तेन गोशीपचन्दनेन-हरिचन्दनेन 'अन्विति' अतिशयेन लिप्तं-विले-18 लापनरूपं कृतं गात्रं-शरीरं यस्य स तथा, शुचिनी-पवित्रे माला-पुष्पमाला वर्णकं विलेपनं च-मण्डनकारि कुङ्कमादि || विलेपनं यस्य स तथा, कल्पितो-विन्यस्तो हार:-अष्टादशसरिकोऽर्धहारो-नवसरिक: त्रिसरक-प्रतीतमेव यस्य स तथा,* प्रालंबो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कव्याभरणविशेषेण सुलु कृता शोभा यस्य स तथा, ततः पदत्र-12 यस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुष्टु कृता शोभा यस्य स तथा, पिनद्धानि-परिहितानि |वेयकाङ्गलीयकानि कण्ठकाख्योर्मिकाख्यानि येन स तथा, तथा 'ललियंगय'त्ति ललिताङ्गके-शोभमानशरीरे अन्यान्यपि ललितानि-शोभनानि कृतानि-न्यस्तानि आभरणानि-सारभूषणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, नानामणिकनकरत्नानां कटकत्रुटिकैः-हस्तबाहाभरणविशेषैः बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो यः स तथा, कुण्डलाभ्यां-कर्णाभरणाभ्यामुद्योतित-उद्योतं प्रापितमाननं-मुखं यस्य स तथा, मुकुटदीप्तशिरस्का, हारेणावस्तृत-आच्छादितं तेनैव सुष्टु कृतं रतिदं च वक्ष:-उरो यस्यासौ हारावस्तृतसुकृतरतिदवक्षाः (क्षसः), प्रलम्बेन-दीर्घेण|
दीप अनुक्रम [७१]
CASSAR
~61~