SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (२८-व) “तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:) ---------- मूलं [१४]/गाथा ||४९...|| ------- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-वृ], प्रकीर्णकसूत्र-[१] “तंदुलवैचारिकं” मूलं एवं विजयविमल गणि कृता अवचूर्णि: प्रत [१४] ||४९..|| SECRECORRESCORRORSCRECE तयन्तो वर्तन्ते ४, ज्योतिपिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमपि भासयन्तः सन्तीति ५, चित्राङ्गेषु माल्यमनेकप्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति ६, चित्ररसाः भोजनार्थाय भवन्ति, कोऽर्थः -विशिष्टदलिककलमशालिशालनकाः पक्वान्नप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियबलपुष्टिहेतुस्वादुभोज्यपदार्थपरिपूर्णैः फलमध्यैविराजमानाश्चित्ररसाः संतिष्ठन्ते इति ७ मण्यङ्गेषु वराणि भूषणानि विस्रसापरिणतानि कटककेयूरकुण्डलादीन्याभरणानि भवन्ति ८, गेहाकारनामकेषु कल्पद्रुमेषु विनसापरिणामत एव प्रांशुप्राकारोपगूढमुखारोहसोपानपतिविचित्रचित्रशालो-12 |चितकान्तानि अनेकसमप्रकटापवरककुट्टिमतलाद्यलङ्कृतानि नानाविधानि निकेतनानि भवन्ति ९, अनग्नेषु कल्पपादपेषु अत्यर्थ बहुप्रकाराणि वस्त्राणि विनसात एवातिसूक्ष्मसुकुमारदेवदूष्यानुकाराणि मनोहारीणि निर्मलानि उपजायन्त | इति १० । 'पुढविपुप्फे ति पृथिवीपुष्पफलाहाराः पृथिवी पुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा, 'ते मणुयगणा'| ते मनुजगणाः-युगलधार्मिकवृन्दाः 'ण' वाक्यालङ्कारे प्रज्ञप्ता जगदीश्वरैः, यदुक्तं जीवाभिगमवृत्ती हे भगवन् ! पृथिव्याः कीदृशः आस्वादः?, भगवानाह-हे गौतम ! यथा गोक्षीरं चातुरक्य-चतुःस्थानपरिणामपर्यन्तं, तच्चैवं-गवां पुण्डदेशो दवेक्षुचारिणीनां अनातङ्कान कृष्णानां यत्क्षीरं १ तदन्याभ्यः कृष्णगोभ्य एवं यथोक्तगुणाभ्यः पानं दीयते २ तत्क्षी-12 परमप्येवंभूताभ्योऽन्याभ्यः ३ तरक्षीरमप्यन्याभ्यः ४ इति चतुःस्थानपरिणामपर्यन्तं, अन्ये त्वेवमाहुः-पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमद्धार्द्धक्रमेण दीयते यावदेकस्याः क्षीरं तच्चातुरक्यमिति, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीतं मन्दाग्निकथितं, इतोऽपि पृथिव्याः आस्वादः इष्टतर इति, कल्पपादपसत्कानां पुष्पफलानां तु कीडश आस्वाद:, दीप अनुक्रम SARASHARACTORS [६४]] JatnititALI ~55~
SR No.004150
Book TitleAagam 28 V TANDUL VAICHAARIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages117
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy