________________
आगम
(२८-वृ)
प्रत
सूत्रांक [१४]
+
॥४९..||
दीप अनुक्रम
[ ६४ ]
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र -५ (मूलं + अवचूर्णि:)
मूलं [१४] / गाथा ||४९...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि:
चन्द्रादित्यादिचिह्नौ अच्छिद्रजाली - अविरलाङ्गुलिस मुदाय पाणी-करी येषां ते तथा पीवराः - उपचितां वृत्ता:-वर्तुलाः सुजाता:- सुनिष्पन्नाः कोमलाः वराः अङ्गुल्यः-करशाखा येषां ते तथा ताम्राः - अरुणाः तलिनाः - प्रतलाः शुचयः - पवित्रा रुचिरा - दीप्ताः स्निग्धा - अरूक्षाः नखा-नखराः येषां ते तथा, चन्द्र इव पाणिरेखा- हस्तरेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणेरेखाः, एतदेवानन्तरोकं विशेषणपञ्चकं तत्प्रशस्तता. प्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-शशिरविशङ्खचक्रस्वस्तिकरूपाः विभका-विभागवत्यः सुविरचिताः - सुकृताः पाणिषु रेखाः येषां ते तथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुली - प्रतिपूण उन्नती-गी मृदुकौ - कोमलौ द्वौ स्कन्धी येषां ते तथा वरमहिषः-सैरभेयः वराहः - शूकरः शार्दूलो- व्याघ्रः नागवरो-गजवरः, चत्वार्थकुलानि स्वाङ्गुल/पेक्षया सुष्ठु प्रमाणं यस्याः कम्बुवरेण च प्रधानशङ्खेन सदृशी-उन्नतत्ववलित्रययोगाभ्यां समाना ग्रीवा- कण्ठो येषां ते तथा अवस्थितानिन हीयमानानि न वर्द्धमानानि सुविभक्तानि चित्राणि च शोभया अद्भुतभूतानि श्मश्रूणि - कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु-चिबुकं येषां ते तथा, 'ओयविय'त्ति परिकर्मितं यच्छिला प्रवाल- विद्रुमं बिम्बफलं - गोल्हाफलं तत्सन्निभः- सदृशो रक्तत्वेन अधरोष्ठः- अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलं-चन्द्रखण्डं तद्वत् विमल:- आगन्तुकमलरहितः निर्मलः - स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् 'कुंद त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत् पद्मिनी मूलवत् धवला दन्तश्रेणिः- दशनपङ्क्तिर्येषां ते तथा, अखण्डदन्ता: - परि पूर्णदशनाः अस्फुटितदन्ताः - राजिरहितदन्ताः अविरलदन्ताः सुखिग्धदन्ताः - अरूक्षदन्ताः सुजातदन्ताः- सुनिप्पन्नद
Pre & Pomonal Use Oily
~ 47~
Jainelibrary.org