________________
आगम
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
(२८-व)
.................- मलं [१९...]/गाथा ||१२२-१२९|| ----- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-८], प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
सत्राक
[१९..]
||१२२-१२९||
तेषु विसर्पत-विस्तारं गच्छत् हृदयं-मानसं यासां ता अयशःशतविसर्पहृदयास्तासां तथा 'कइयवत्ति कैतवानि. कपटानि नेपथ्यभाषामार्गगृहपरावर्त्तादीनि 'पन्नत्ती'ति प्रज्ञाप्यन्ते-प्ररूप्यन्ते याभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानादम्भानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि कमलश्रेष्ठिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञप्तयः, यद्वा कैतवेषु प्रज्ञाया
बुद्धेराप्तिः-आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां २ कैतवप्रज्ञाप्तीनां वा, तथा 'ताणति तासां नारीठाणामज्ञातशीलानां-पण्डितैरप्यज्ञातस्वभावानां, यदुक्तं-'देवाण दाणवाणं मंतं मंतंति मंतनिउणा जे । इत्थीचरियमि लापुणो ताणवि मंता कह नहा ? ॥२॥ जालंधरेहिं भूमीहरेहिं विविहाहिं अंगरक्खेहिं । निवरक्खियावि लोए रमणी दीसहर
पभडमज्जाया ॥२॥ मच्छपयं जलमज्झे आगासे पंखियाण पयपंती । महिलाण हिययमग्गो तिन्निवि लोए न दीसंति ॥॥"
इति, यद्वा न ज्ञातं-नाङ्गीकृतं शीलं-ब्रह्मस्वरूपं याभिस्ताः अज्ञातशीलास्तासां, यद्वा नञः कुत्सार्थत्वात् कुत्सितं, दिज्ञातं शीलं साध्वीनां याभिः परित्राजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासां मुनिवरैः प्रसङ्गैकान्तजल्पनैकत्र-14
वासविश्वाससहचलनादिव्यापारो वर्जनीय इति २ 'अन्नं रयंति.' द्विव्यादिपुरुषसम्भवेऽन्यं-स्वभावसमीपस्थं नरं रजति-अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत् , यद्वा । स्वकुशीलत्वे केनापि ज्ञाते सति 'अन्नं रयंति'त्ति अन्यद्-विषभक्षणकाष्ठभक्षणादिकं रचयन्ति-कपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं रयन्ति'त्ति अन्यदात्मव्यतिरिक्त-तृणतन्तुदंडादि रदन्ति-उत्पाटनं कुर्वन्तीत्यर्थः, 'रद विलेखने'इति विलेखनमुत्पाटनमिति, 'अन्नं रमंति'त्ति अन्य-स्वकान्तव्यतिरिक्तं नरं रमन्ति-मैथुनतत्पराः
दीप अनुक्रम [१४४-१५१]
~ 109~