________________
आगम
(२८-वृ)
प्रत
सूत्रांक [१९]
•
|||१२१.||
दीप
अनुक्रम [१४३]
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र -५ (मूलं+अवचूर्णि:)
मूलं [१९] / गाथा || १२१...||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[ २८-वृ], प्रकीर्णकसूत्र- [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि:
Jass Education
विधाय नमन्ति नराणां हास्याद्युत्पादनार्थ, 'काइ' इति पदमग्रेऽपि योज्यम् 'सुकडनिरिक्खिहिं'ति काश्चित् सुकटाक्षनिरीक्षितैः- सुष्ठुनेत्रविकार निरीक्षणैः बालान् पातयन्तीति शेषः, 'सविलासमहुरेहिं 'ति सविलासानि च-विलाससहितानि मधुराणि च सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुषान् मोहयन्तीति, 'उपहसिएहि न्ति उपहसितैः काश्चित् हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, 'उवग्गहिए हिं' ति उपगृहितानि - | पुरुषस्यालिङ्गनलिङ्गग्रहणकरग्रहणादीनि तैः काश्चित् नराणां स्वप्रेमभावं दर्शयन्तीति, 'उबसदेहिं ति उपशब्दानि - सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानि वा तैः काश्चित् कामिनां कामरागं प्रकटयन्तीति, 'गुरुगदरिसणेहिं त्ति गुरुकाणि च प्रौढानि - पयोधरनितम्बादीनि स्थूलोच्चत्वात् सुन्दराणि वा यानि दर्शनानि च - आकृतयस्तानि गुरुकदर्शनानि तैर्दूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति १ यद्वा 'गु' इति गुह्यप्रकाशनेन पुरुषं पातयन्ति, यद्वा गु-इति गुरुं स्वजनकभर्त्रादिकमपि विप्रतार्याकार्ये प्रवर्त्तयन्ति, 'रु' इति रुदनकरणेन पुरुषं सस्नेहं कुर्वन्ति २ 'ग०' इति स्वपितुर्गृहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति ३ 'द' इति दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति ४ 'रि' इति सम्भाषणे रे मां मुञ्च रे ! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामं कुर्वन्तीति आर्षत्वात् 'रि' इति यद्वा अरि इति रतिकलहे - अरे मया सह मा कुरूपहासमित्यादिरतिकलहकरणेन पुरुषं क्रीडयन्तीति आर्यत्वात् अरि इति ५ 'स' इति अन्योक्तशृङ्गारगीतादिशब्दकरणेन साधूनपि कामान् कुर्वन्तीति ६ 'ण' इति सकज्जलसविकारसजलाभ्यां नेत्राभ्यां पुरुषं सकामं स्ववशं सगद्गदं स्वकार्यकर्त्तारमपराधमोतारं कुर्वन्तीति
Pre & Pomonal Use Only
~ 105~
jainelibrary.org