________________
आगम
(४५)
प्रत
सूत्रांक
[४२]
दीप
अनुक्रम
[४६]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [४२] / गाथा ||३...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ ३७ ॥
प्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च, सह सिद्धं चतुष्टयम् ॥ १ ॥" इत्यादि । अतस्तद्व्यबच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने न तु सहजे ज्ञानदर्शने घरन्तीत्युत्पन्नज्ञानदर्शनधरास्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, 'सह सिद्धं चतुष्टयमित्यादिवचनविरोधप्रसङ्गात्, तर्हि सुगता | इत्थंभूता अपि भविष्यन्तीत्याशङ्कयाऽऽह- 'तीयपचुप्पण्णेत्यादि, अतीत वर्तमान भविष्यदर्थज्ञाय कैरित्यर्थः, न श्च सुगतानामतीतभविष्यदर्थज्ञातृत्वसम्भवः, एकान्तक्षणभङ्गवादित्वेन तदसत्त्वाभ्युपगमाद्, असतां च ग्रहणेऽतिप्रसङ्गाद्, अथ सन्तानद्वारेण कालत्रयेऽप्यर्थानां सद्भावादतीताद्यर्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशङ्कयाऽऽह - 'सर्वदर्शिभिरिति, सर्वम् एकेन्द्रियद्वीन्द्रियजीबादि वस्तु केवलज्ञानेन जानन्तीति सवैज्ञाः, तदेव सर्व केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः, शाक्यानां त्वतीतायर्थज्ञातृत्वेऽपि सर्वज्ञादित्वं नोपपद्यते, कतिपयधर्माद्यभीष्टपदार्थज्ञातृत्वस्यैव तेष्वभ्युपगमाद्, यत उक्तं तच्छिष्यैः-- "सर्वे पश्यतु मा वासाविष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तत्र नः कोपयुज्यते १ ॥ १ ॥" इत्यादि, यथोक्तगुणविशिष्टत्वात् 'तिलुकवहियमहिये' त्यादि, 'बहिय'त्ति विगलइहलानन्दा श्रदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिता - अभिष्टुताः सुगन्धिपुष्पप्रकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः, तत एषां बन्छे त्रैलोक्येन भवनपतिव्यन्तरनरविद्याधरवैमानिकादिसमुदायलक्षणेन वहि
१ प्रत्यन्तरे नास्ति
For P&Pase Cinly
~77 ~
वृत्तिः श्रुतनिक्षेपः
॥ ३७ ॥
Aty