________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१६] / गाथा ||१३६-१४१||
(४५)
प्रत
सूत्रांक
अनुयो मलधारीया
वृत्तिः उपक्रमे नयाधिक
[१५६]
॥२७०॥
गाथा:
चक्केण रहो पयाइ । अंधो य पंगू य वणे समेचा, ते संपउत्ता नयरं पविट्ठा ॥२॥इत्यादि, अत्राह-नन्वेवं ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् ?, न हि ययेषु प्रत्येकं नास्ति तत्तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत्समुदितेष्वपि सिकताकणेषु तैलं, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवा- पिका शक्तिः, उक्तं च-"पत्तेयमभावाओ निव्वाणं समुदियासुवि न जुतं । नाणकिरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥", उच्यते, स्यादेतद्, यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येक देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिदोषः, आह च-“वीसुं न सब्बहचिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥१॥" अतः स्थितमिदं-ज्ञानक्रिये समुदिते एव मुक्तिकारणं, न प्रत्येकमिति तत्त्वं, तथा च पूज्या:-"नाणाहीणं सव्वं नाणनओ भणइ किंच किरियाए ? । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥" तस्माद्भावसाधुः सर्वैरपि नवैरिष्यत एव, स च ज्ञानक्रियायुक्त एवेत्यतो व्यवस्थितमिदं-तत्सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधुरिति । तदेवं समर्थित नयद्वारं, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र सङ्कलितः। न पुनः खमनीषिकया तथाऽपि यत्किञ्चिदिह वितधम्
प्रत्येकमभावानिर्वाणं समुदितयोरपि न युक्तम् । ज्ञानक्रिययोबेक्तुं सिकतासमुदाये तैलमिय ॥ १ ॥ २ विष्वक् न सर्वथैव सिकतालवत् साधनाभावः । | देशोपकारिता या सा रामवाये सम्पूर्णा ॥१॥ जानाधीनं सर्व ज्ञाननशे मणति किं च किया है । फियाया (अधीनं) चरणनपस्तदुभयग्राहश्च सम्यक्त्वम् ॥१॥
||१-६||
SSS
दीप अनुक्रम
[३४३
-३५०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~543~