SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ....... मूलं [१५५] / गाथा ||१३३-१३५|| (४५) प्रत सूत्रांक [१५५] गाथा: ||१-३|| गुणाः सूत्रस्य पश्यन्ते, तद्यथा-"अप्पक्खरमसंदिदं, सारवं विस्सओमुहं । अस्थोभमणवजं च, सुत्तं सब्वण्णुभासियं॥१॥ यत्राल्पाक्षरं-मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं-सैन्धवशब्दवद्यल्लवणवसनतुरगायनेकार्थसंशयकारि न भवति, सारवत्त्वं च पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षम, यथा-'धम्मो मंगलमुकिट्ट मित्यादिश्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अधबा अनन्तार्थत्वाद् यतो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिंश्च व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभकाः-चकारवाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम् , अनवयं कामादिपापच्यापाराप्ररूपकं, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणास्ते ज्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानालामपि सङ्कहं प्रतिपादयन्ति । एवं सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्त सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतत्वसमयगतजीवाद्यर्थप्रतिपादकं पदं खसमयपदं, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदं, अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुखाइन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके, अन्ये तु व्याचक्षते-प्रकृतिस्थित्यनुभावप्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम् , सद्बोधकारकणखात् कृत्लकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति । आह-नन्वन्त्र ब्याख्याने वन्धमोक्षप्रतिपा दकं पदद्वयं खसमयपदानातिरिच्यते तत्किमिति भेदेनोपन्यासः?, सत्यं, किन्तु स्वसमयपदस्थाप्यभिधेयवै दीप अनुक्रम [३३७-३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~528~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy