________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१९] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
1960
प्रत
सूत्रांक
[१९]
कमलानामाकरा-उत्पत्तिभूमयो हुदादिजलाशयविशेषास्तेषु यानि नलिनीखण्डानि तेषां बोधको यः स तथा तस्मिन, पुनः किंभूते तस्मिन्नित्याह-सहस्ररश्मी, दिनं करोतीति दिनकरस्तस्मिन , तेजसा ज्वलति सति, तत्रैवैते भावाः सर्वेऽपि सन्तीति ज्ञापनार्थ सूर्यस्य विशेषणबहुत्वम्, अनेन चोत्तरोत्तरकालभाविना आव
इयककरणकालविशेषणकलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह, तथाहै हि-केचित् प्रकृष्टोद्यमिनः किञ्चित् प्रकाशमानायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्यमिनस्तु
तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितरीति, 'मुहधोवणे'त्यादि, मुख-11 ६ धावनं च दन्तप्रक्षालनं च तैलं च फणिहश्च सिद्धार्थाश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं तच गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां लानाभरणपरिधानादीनां तानि तथा, तत्र फणिहा-कङ्क
तकस्तं मस्तकादी व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दूवा, एतदद्वयं मङ्गलाथै शिरसि प्रक्षिपन्ति, आदर्शषु मुखादि निरीक्षन्ते, धूपेन वस्त्रादि धूपयन्ति, अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम्, अथवा विकसितानि पुष्पाणि तान्येवाविकसितानि माल्यम् , एतेषां च मस्तकादिषूपयोगः, शेष स्वरूपत उपयोगतश्च प्रतीतमेव, एतानि द्रव्यावश्यकानि कृत्वा ततः पश्चाद्राजकुलादौ गच्छन्ति । तत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्रारमन्ति स विविधपुष्पजात्युपशोभित आरामः, वस्त्राभरणादिसमलङ्कृतविग्रहाः सन्निहिताशनायाहारा मदनोत्सवादिषु क्रीडार्थ लोका उदान्ति यत्र तचम्पकादितरुख
दीप अनुक्रम [२०]
~50~