SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ...... मूलं [१४८] / गाथा ||११८...|| 24 प्रत सूत्रांक [१४८] नम् । एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत्तत्सर्व समस्तं कृल्लं देशप्रदेशकल्पनारहितं प्रतिपूर्णमात्मखरूपेणाविकलं निरवशेषं तदेवैकत्वानिरवयवमेकग्रहणगृहीतमेकाभिधानाभिधेयं न नानाभिधानाभिधेयं,तानि होकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद्धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देशप्रदेशी ममावस्तुभूती, अखण्डस्यैव वस्तुनः सत्वेनोपयोगात, तथाहि-प्रदेशप्रदेशिनो दो वा स्यादभेदो वा?, यदि प्रथमः पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गो, न च तथोपलन्धिरस्ति, अथाभेदस्तर्हि धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोयुगपदुचारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य धैयर्थ्यात् , तस्मादेकाभिधाना-17 भिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्पर निरपेक्षा दुर्नयाः, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनयाः, तैश्च परस्परसापेक्षैः समुदितैरेव है सम्पूर्ण जिनमतं भवति, नैकैकावस्थायाम्, उक्तं च स्तुतिकारेण-"उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्विबोदधिः॥१॥"। एते च नया ज्ञानरूपा-18 स्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्वत्त्वाहहुविचारविषयवाजिनागमे प्रतिस्थानमुपयोगित्वाच जीवगुणप्रमाणात्पृथगुक्ताः। तदेतत्प्रदेशदृष्टान्तेनेति निगमनम् । प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति-तदेतन्नयप्रमाणमिति । अनेन च %258-645625** दीप अनुक्रम [३१०] x मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~ 462~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy