________________
आगम
(४५)
प्रत
सूत्रांक
[१४६
-१४७]
गाथा:
|I--II
दीप
अनुक्रम
[ ३००-३०९]
अनुयो०
मलधा
रीया
॥ २२० ॥
Jar Education
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः)
मूलं [ १४६- १४७] / गाथा ||११५-११८ ||
घटादिषु चक्षुर्दर्शनं भवतीति पूर्व विषयस्य भेदेनाभिधानं कृतं, श्रोत्रादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति, उक्तं च- "पुढं सुणेह सद्दं रूवं पुण पासई अपुढं तु इत्यादि । अवधेर्दर्शनमवधिदर्शनम्, | अवधिदर्शनिन:- अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपद्रव्येषु भवति, न पुनः सर्वपर्यायेषु यतोऽवधेरुत्कृष्ठतोऽप्येकवस्तुगताः सङ्ख्येया असङ्ख्येया वा पर्याया विषयेत्वेनोक्ताः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः उक्तं च- "देव्वाओ असज्जे सज्जे आवि पज्जवे लहह । दो पज्जवे दुगुणिए लहइ य एगाउ दव्वाओ ॥ १ ॥” अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः साधूक्तं केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मृदादि सामान्यमेव तथा तथा विशिष्यते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः, केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवल दर्शनिनः| तदावरणक्षयाविर्भूततलब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तीमूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं
१ स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव २ द्रव्येषु असोयान् सङ्ख्यान् वापि पर्यवान् लभते । द्वौ पर्यायी द्विगुणिती लभते चैकस्मिन् द्रन्ये ॥१॥
वृत्तिः ash प्रमाणद्वार
~443~
॥ २२० ॥
For & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
brary dig